________________
१०२ नाभिनन्दनोखारप्रबंधः । चतुर्विशतिबिम्बानि द्वे बिम्बे च बृहत्तरे । सत्या-ऽम्बा-शारदायुग्म-गुरुमूर्तीरकारयत् ॥९३९॥ श्रीसिद्धसूरीनभ्यर्च्य सहादाय च देशलः । बिम्बानि स्कन्धवाहानां दत्त्वा स्कन्धेषु सोऽचलत् ॥९४०॥ 5 श्रुत्वा सहजपालोऽपि गुरुबिम्बागमं मुदा । संघेनाभ्याययौ सार्धं प्रयाणकचतुष्टयम् ॥९४१॥ सम्प्राप्तानां देवगिरी मुरुमूलाईतामथ । सहजः कारयामास स प्रवेशमहामहम् ॥९४२।।
महोमडालतूर्याणां विभाति प्रतिशब्दितैः । 10 कलिनिद्रावशं धर्म जगत्युत्थापयन्निव ॥९४३॥
प्रतिवेश्मद्वारसंस्था बु(ब)भुर्वन्दनमालिका । भव्यानां पुण्यवल्लीभ्यो निर्गताः पल्लवा इव ॥९४४॥ गृहे गृहे पूर्णकुम्भा विन्यस्ता अवभासिरे ।
पुण्यरस्लौघसम्पूर्णा निधयः प्रकटा इव ॥९४५॥ 15 असमाने वर्तमाने सहजोऽथ महोत्सवे । बिम्ब देवगृहेऽनैषीत् स्वगुरुन् पौषधोकासि ॥९४६॥ क्रमेण जलयात्रादिमहोत्सवपुरस्सरम् । प्रतिष्ठालग्ने समयं सिद्धसूरिरसाधयत् ॥९४७॥
ततश्चतुर्विधं संघं भोजनैर्वसनैर्वरैः । 20 अपूपुजन् मुदा साधुदेशल: पेशलोदितः ॥९४८॥
मण्डपं कारयामास प्रासादपुरतः पृथुम् । देसलो देवकुलिकाचतुर्विशतिसंयुतम् ॥९४९॥ प्रासादपरितो रम्यहHश्रेणिसमन्वितम् ।
मोहप्रवेशरक्षायै दुर्ग दुर्गमसूत्रयत् ॥९५०॥ 25 स प्रसादे सातकुम्भकुम्भं साधुर्यवेशयत् ।
स्फुरदीप्ति दीपमिव स्वकुलोद्योतहेतवे ॥९५१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org