SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ १०० नाभिनन्दनोद्धारप्रबंधः । तृतीयः समरसिंहो यः स्यादगणितोयते(?) । तृतीयः समरसिंहः । परं स एव संजशे मुणैर्गम्यतमो नृणाम् ॥९१३॥ यस्यापूर्वी गुणः कश्चिन्न ददौ कस्य विस्मयम् । मोचयन् बन्धनालोकं सरलत्वं सदा वहन् ॥९१४॥ 5 देशलानुजलावण्यसिंहस्य श्रीपतेरिव । देशलानुजलावण्यसिंहः । लक्ष्मीर्लक्ष्मीनामिकाऽभूत् पत्नी सत्वहितावहा ॥९१५॥ यत्पञ्चशाखो दानेन कल्पद्रुम इवार्थिनाम् । चित्रं स करपत्राणामप्यसाबुपरि स्थितः ॥९१६॥ साऽसूत द्यौरिव सुतौ सूर्याचन्द्रमसाविव । 10 भासयन्तौ भुवं विश्वविश्वोपकृतिकर्मठौ ॥९१७॥ सामन्तनामा प्रथमः सत्तमो योऽभवत् सदा। सःमन्तनामा प्रथमः । शम-शौच सत्य-शील-सत्त्व-संयमशालिनाम् ॥९१८॥ अनुजः साङ्गणाभिख्योऽभवद् भुवनविश्रुतः । अनुज: सांगणः । श्रुतिप्राप्ता अपि नृणां लगन्ति हृदि यद्गुणाः ॥९१९॥ 15 अथो लावण्यसिंहेऽपि स्वर्गवर्गमुपेयुषि । देशलो मन्दिरैश्वर्य भेजे भाग्याधिकः सदा ॥९२०॥ स साधुः पञ्चभिः पुत्रैः संवृतोऽणुवतैरिव । शुभंयुभिरसौ रेजे गृहिधर्म इवाङ्गवान् ॥९२१॥ ज्येष्ठं सुतं गुणज्येष्ठं विचार्य सहजं पिता। 20 प्रेषयामास वासार्थ श्रीमद्देवगिरौ पुरे ॥९२२॥ तल्लघु साहणं सर्वकलाकौशलशालिनम् । वीस्य तातः स्तंभतीर्थे निवासायासुवत् पुरे ॥९२३॥ स्वयं सर्वत्र पुत्राणां धुर्याणामिव सारथिः। शिक्षाप्रतोदानेन व्यधात् सत्पथगामिताम् ॥९२४।। 25 सहजः श्रीदेवगिरीरामदेवं नृपं गुणैः। सहजो देवगिरौ रामदेव तथा निजवशं चक्रे यथा नान्यकथामसौ॥९२५॥ नृपं वशं चके। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy