________________
द्वितीयः प्रस्तावः ।
गृहापवरकान्तःस्था धूपयामास धूपनैः ॥ ७९८|| प्रसरन्तमम्वरेभ्यो दृष्ट्वा धूमं विनिर्गतम् । कर्मकृत् तत्र चिक्षेप पधूल्यादिकाशुचिम् ॥७९९ ॥ विवेश वेश्मनो मध्ये तारा कार्ये क्वचिद्यदा ।
5 तदा तद्वैकृतं वीक्ष्य सहसा पूच्चकार सा ||८०० || रे पापिष्ठ दुराचार मूर्ख ! किं विहितं त्वया ।
सद्यो धौतानि वासांसि यद्येतानि विनाशयः ( ये ) || ८०१ ॥ स प्राह स्वामिनाऽऽदिष्टं विहितं स्वहितं न हि । प्रभूक्तं न करिष्ये चेत् कर्ताऽन्यत् ब्रूहि किं ततः ॥८०२ ॥ 10 साऽपि भर्तारमा कार्य तच्चेष्टितमदर्शयत् ।
९१
सोऽवदत् सुभु ! भूयोऽपि क्षालयेथा यथारुचि ॥८०३ ॥ सा प्राह क्षालनं पश्चादपि भावि परं त्वमुम् । निष्काशय गृहान्मूर्ख सदा सन्तापकारकम् ॥८०४॥ एकोऽयस्मद्वेश्मकर्म विधातुं सर्वमप्यलम् | 15 तन्न त्याजे (ज्यो ) ऽनूरुरपि यथा सूर्यस्य सारथिः ॥ ८०५ || सोचे भर्तरहं कर्म करिष्यामि स्वयं गृहे । निश्काश्योऽसौ सुवर्णेन तेन किं यत्तु कर्णहृत् ||८०६ ॥ किं च कर्मकृताऽनेन कान्तालेन गुणस्तव । नशोभाऽपि वरं शाला शून्या चौरभृता न यत् ||८०७|| 20 स प्राह स्वीकृतो मूर्खोऽप्येष किमुच्यते प्रिये ! | पशुं [पशु ] पतिख्यातिरिति किं त्यजतीश्वरः ॥ ८०८|| तदाऽसावन्वहं शिक्ष्यमाणो भावी विचक्षणः । यच्छैलसरिद्भावाऽपि वृत्तः स्याद्वद्दुघर्षणात् ॥ ८०९ ॥ साss स्वामिन्नसौ भावी न दक्षः शिक्षितोऽपि हि । 25 सदभ्यस्तोsपि किं कुर्यात्काकोलः कोकिलास्वरम् ||८१०|| शास्त्रेऽपि श्रूयते किं च स्वामिन्नेतत् सुभाषितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org