________________
९० नाभिनन्दनोद्धारप्रबंधः ।
शब्देन महता स्वामिन् ! रब्बा भवति शीतला १७८५॥ ग्रामेशीप्यत्यही रब्बामित्यसौ सहवासिभिः । हस्यमानो गतो गेहं मौयं धिमिति चिन्तयन् ॥७८६॥ तं निवेश्य रहः प्रोचे सभायां संस्थितस्य भो!। 5 न वाच्य वाचकं किञ्चिनिर्देश्य उस्थितस्य मे ॥७८७॥ एवं शिक्षा प्रदायासौ भोजनं विदधे स्वयम् । स चक्रे स्वीचितं कर्म कर्मकृन्मूर्खशेखरः ॥७८८॥ दह्यमाने गृहेऽन्येधुः प्रेषितः कान्तया पुनः ।
आकारणाय कान्तस्य देवीयात्रामहस्थिते ॥७८९|| 10 ग्रामोपान्तवने देवीयात्रायातजनोश्चये।
वीक्ष्य ग्रामेशमासीनं पूर्वशिक्षा हदि स्मरन् ॥७९०॥ चिरं मौनधरस्तिष्ठन् पृष्टो ग्रामाधिपेन सः। उवाच कर्णलग्नस्ते गृहं ज्वलति वह्निना ॥७९॥
यावनिरीक्षते प्रामाभिमुखं प्रामनायकः। 15 तावदू धूमः प्रापदेक्यं नमसा क्षीरनीरवत् ॥७९२॥
प्रामेशः प्राह भो मूर्ख! किमेत इयती भुवम् । कथं नाकथयिष्यस्वं स्थितः किं कीलितांगवत् ॥७९३॥ स प्राह स्वामिन्या प्रेषितोऽहं समागमम् ।
लोकमेलापकस्थस्य नाचख्यौ तव शिक्षया ॥७९४॥ 20 ग्रामेशो अामलोकेन सह याति स्वरागतिः।
यावता तापता वेश्म वह्निना भस्मसात् कृतम् ॥७९५॥ ततः कर्मकृतं प्रोचे ग्रामेशो मूर्ख! दृश्यते । यत्र धूमः स्वयं क्षेप्यं धूलि-पङ्कादि तत्र हि ॥७९६॥
एवं करिष्येऽङ्गीकृत्य लग्नोऽसौ नि[ज] कर्मणि । 25 ग्रामेशोऽपि नवं वेश्म कारयामास तत्क्षणात् ॥७९७।।
वासांसि नवधू(धौ)तानि ग्रामेशदयिताऽन्यदा।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org