________________
द्वितीयः प्रस्तावः ।
स ग्रामीणप्रजा गोप इव गाः पालयन् समाः । बभूव दोग्धा यशसां पयसां विशदात्मनाम् ॥७७३ ॥ ग्रामद्वारि स आसीनोऽन्यदाऽऽस्ते ग्रामपर्षदि । अपश्यत् पुरुष केचिल्लनं वालेयवालधौ ॥७७४ ॥ 5 खरेण चरणाभ्यां स हन्यमानोऽपि वालधिम् । नामुचद् गात्रसंकोची यथा पुच्छधृतोरगम् ॥७७५ ॥ ग्रामीणैर्मुञ्च मुञ्चोक्तेऽप्यमुञ्चन् खरताडितः । पपात निःसहः शाखाभ्रष्टः कपिरिवारटन् ॥ ७७६ ॥ ग्रामेशादिजनः सर्वस्तमुत्थाप्यानुकम्पया | 10 वपुः प्रमार्ण्य वस्त्रान्तैः शीतं जलमपाययत् ॥ ७७७॥ पर्षद्यानीय पृष्टोऽसावेतावान् किं तवाग्रहः । हन्यमानोप्युच्यमानोप्यौज्झत् पुच्छं खरस्य न ॥ ७७८ ॥ सोप्याह देव ! मात्राऽहमुक्तो जात ! त्वमीदृशः । भरिष्यस्युदरं वत्स ! कथं कार्यश्लथादरः ॥७७९ ॥ 15 तदाऽन्यादिष्टमादेशं लब्ध्वा तत्र कृताग्रहः ।
तथा भवेस्त्वं लोकस्य यथा स्याः सर्वदा प्रियः ॥ ७८० || अम्बादेशेन तत्पुच्छं नामुञ्चम् विहिताग्रहः । धारयामुं खरमिति तत्स्वामिभणितो ह्यहम् ॥ ७८१ ॥ श्रुत्वेति ग्रामनाथोऽन्तरचिन्तयदयं युवा ।
20 मुग्धोऽस्ति तदमुं नीतिगृहे संस्थाप्य शिक्षये ॥ ७८२ ॥ अथासौ सह नीत्वा तं कर्मकृत्वे (त्ये) न्ययोजयत् । भोज्यमाच्छादनं शिक्षां दत्तेऽस्मै दयया खलु ॥७८३॥ भोजनावसरेऽन्येद्युर्ग्रामशाह्रायनाय सः । प्राहैषि पत्न्या ग्रामीणसभायामभितस्थुषः ॥ ७८४ ॥ 25 सोऽप्येत्य मौर्यात्सर्वेषां शृण्वतां प्रकटं जगौ ।
* रासभपुच्छके.
Jain Education International
For Private & Personal Use Only
८९
www.jainelibrary.org