SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ९२ नाभिनन्दनोद्धारप्रबंध: पण्डितोऽपि वरं शत्रुर्मा मूखों हितकारकः ॥८११॥ किं चान्यः सेवकः स्वामिन् ! पतिमात्मानमप्ययम् । विनाशयेद्यथात्मानमामकुंभ इवोदकम् ॥८१२॥ अनर्थे पातयेदशः स्वमन्यानपि संश्रितान् । 5 ग्रामीणांस्तापसो जाल्मो यथापूर्वमपातयत् ॥८१३।। कः स तापस इत्युक्ते साऽऽह वैताठ्यपर्वते । विद्याधरो वेगचूलाभिधो विद्युत्धुराधिपः ॥८१४॥ तापसकथा। अन्यदा स सभाऽऽसीनो जडत्वं शिवशालने । श्रुत्वेति सूक्तं तत्सत्यवीक्षायै भुवमागमत् ॥८१५॥ 10 तदा पोलासकग्रामादाहर्तुं समिधो गतः। विद्यते तापसः कोऽपि सोऽस्याभूत् दृष्टिगोचरः ॥८१६॥ विचके खेचरो धेनुं चरन्ती मुनिगोचरे । वीक्ष्य स्थूलतनुं तां गां मेने कामगवीमृषिः ॥८१७॥ खमुत्पपात सा यावत् तावत्पुच्छेऽलगन्मुनिः। 15 स्वदेहेन स्वयं स्वर्गे गन्तुकामस्तया सह ॥८१८॥ साऽपि वैद्याधरी माया वैताब्यमगमत् क्षणात् । तत्पुच्छविलग्नः सोऽपि मेने स्वर्ग तमेव हि ॥८१९॥ खेचरस्तं गृहे नीत्वा खादयामास मोदकान् । मुनिः स्वर्गफलान्येतान्यमन्यत महाप्रमान् ॥८२०॥ 20 स्वादुभिर्मोदकैस्तृप्तोऽचिन्तयत्तापसो हृदि । धिगियन्ति दिनान्यस्मज्जन्म यातं निरर्थकम् ॥८२१॥ कृतार्थः साम्प्रतमहं प्राप्यापूर्व दिवोऽशनम् । तदमुं ग्रामलोकस्याप्यानये दर्शनातिथिम् ॥८२२॥ किं तया क्रियते लक्ष्म्या परदेशेष्ववाप्तया । 25 या भवेन्न जनाध्यक्षा परद्वीपे रवेरिव ॥८२३॥ निश्चित्यति पुनर्धेनोर्गच्छन्त्याश्चरणाय सः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy