________________
नाभिनन्दनोद्धारप्रबंधः । परं न कोऽप्यलभूष्णुः कर्तुमेतच दुष्करम् । लोकस्तदुष्ण(त)रच्छाया इव भ्रमति पार्श्वत: ॥४५१॥ सार्थेशवचनं शंखः प्रतिक्षायेति कर्कटीः। जघास ग्रासवत् सर्वा यक्षशक्त्यैकहेलया ॥४५२॥ 5 सिद्धोऽयं किमु देवोऽयं खेचरोऽयं किमीडशैः।
चरितैश्चित्रकन्नून सामान्योऽयं न मानवः ॥४५३॥ स्तूयमानो जनेनेति कुमारोऽभ्यर्थ्य सादरम् । सार्थाधिपतिना सद्यः स्वीयं गेहमनीयत ॥४५४॥
विविधैरशनैः पानभोजयित्वा सगौरवम् । 10 उपानीय पुरः पुत्री प्राञ्जलिर्जल्पति स्म सः ॥४५५॥
देवाय नन्दिनीयं मे त्वद्भार्याभावमीयुषी। कृतार्थास्त्विति किं चास्यास्त्वदाने शृणु कारणम् ॥४५६॥ पुरेऽत्र सागराह्वोऽहं वणिक् दारिद्यमन्दिरम् ।
मरौ कल्पलतेव मद्गृहेऽजायतात्मजा ॥४५७॥ 15 आजन्म दिवसादस्या भाग्येनाकस्मिकैर्धनैः।
अचिरेणागतैः पूर्णा(गोड)भूवं सर इवोदकैः ॥४५८॥ रूपेणार(स्त)सुरलैणा सर्वाङ्गीणसुलक्षणा । मनो रमयतीत्येषा लोकैरुक्ता मनोरमा ॥४५९॥
प्रवर्धमाना सकला अध्यगै(गी)ष्ट कला अपि । 20 क्रमेण प्राप सा चारुतारुण्यचतुरे वयः ॥४६०॥
वीस्येमां यौवनप्राप्तां वरचिन्तामहोदधौ । मजन्नवापमात्मीयगोत्रदेवीमहातरीम् ॥४६॥ तयैवाश्रितया शीघ्रमादिष्टोऽस्या वरो भवान् ।
त्रपुषीभक्षणं चाभिज्ञानं वरपरीक्षणे ॥४६२॥ 25 तदेनां पुण्यसम्प्राप्तां पुत्रीमुह मामकीम् ।
पटी तवोच्छीर्षके सावृते कर्तनपि जने (?) ॥४६३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org