SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्ताधः । श्रुत्वेति कुमारे मौन श्रिते तां सागरः सुताम् । महेन महता तेन व्यवाहयदमूढधीः ॥४६४॥ मनोरमा मनस्तस्य यावकिश्चिदपाहरत् । तावद्देशदिदृक्षाऽपि कटाक्षीकुरुते स्म तम् ॥४६५॥ 5 प्रकाश्य स्वेप्सितं तस्यै समित्रोऽथ पुरोऽचलत् । यद्विशेषातिदेशोहि प्रकृतं नैव बाधते ॥४६६॥ प्राप प्रियंवदजनां स क्रमात् मिथिलां पुरीम् । याऽग्निमुखेभ्यो भीतेवाभ्यागता स्वःपुरी भवम् ॥४६७॥ जितारिस्तत्र भूपालपालिलालितशासनः।। 10 भूपतिः कुरुते राज्य प्राज्यं स्वर्गसमद्धिभिः । ४६८॥ तस्यास्ति सुन्दरी नाना पट्टदेवी पतिव्रता। यस्याः शीलोमणा प्लुष्टः किञ्चिच्छयामोऽभवच्छशी॥४६९॥ तस्कुक्षिसरसीहंसी सुताऽऽस्ते रतिसुन्दरी। यद्वपसम्पदं द्रष्टुं शक्तो जज्ञे सहस्रक् ॥४७॥ 15 विद्यया वाक्यदेवीव कामकान्तेव रूपतः । सौभाग्येन रमेवासौ क्रमेण प्राप यौवनम् ॥४७१॥ कुतश्चित्कारणाजशे नरविद्वेषिणी तु सा। पाणिपीडननामापि न सहे स्वस्य तत्तदा ॥४७२॥ विवाहमीहते नैव त्वत्कीत्य पितृगेहगा। 20 भवेत् किं तर्हि कुर्वेऽहं के श्रये यामि कुत्र वा ॥४७३॥ इति चिन्तापगापूरप्लावनोऽदृष्टचेतनः। अनाति न न निद्राति दुःखात इव भूपतिः ॥४७॥ तचिता(त्तव्यग्रताहेतुं पौराणां जल्पतां मिथः। भाकर्ण्य भूपभूर्जशे सद्यस्तदर्शनोन्मनाः ॥४७५॥ 25 मन्त्रयित्वाऽथ यक्षेणादृश्यो गुटिकयाऽभवत् । तेन दर्शितमागोऽसौ कन्याऽन्तःपुरमाविशत् ॥१७६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy