________________
द्वितीयः प्रस्तावः । संहृत्य राक्षसं रूपं दिव्यदेहधु(ता)दिशः। द्योतयन्ती प्रादुरासीदथ विद्याधिदेवता ॥४३८॥ उवाच वत्स ! विद्याधिदेवताऽस्मि समाचरम् ।
नैशाचरमिदं रूपं तव सत्त्वं परीक्षितुम् ॥४३९॥ 5 जात्यं स्वर्णमिवानय सत्त्वं ते सात्त्विकाग्रणीः ।
तेन तुष्टास्मि तच्छीघ्रं वाञ्छितं च पुनः सूरी ॥४४०॥ प्रार्थयस्वार्थमप्यन्यत् किश्चिद्वत्स! ततोऽब्रवीत् । कुमारो देवि ! समये स्मृताऽऽगच्छेर्ममान्तिकम् ॥४४॥
ओमित्युक्त्वा तिरोऽधत्त साथ योग्यपि भूपजम् । 10 उत्थाय सस्वजे स्वार्थपूर्तिस्फूयोलसन्मनाः ॥४४२॥
स्वरप्रसादादियं सिद्धिर्महाभागाभवन्मम । यश्चन्द्रकान्तादमृतद्रुतिस्तञ्चन्द्रवलितं(वर्तितम् ) ॥४४३॥ इत्यादिस्तुतिभृद् योगी कुमाराय बलादपि ।
अदत्त गुटिकामेकामहश्यीकारकारणम् ॥४४४॥ 15 गृहीत्वा गुटिकां गोष्ठया सिद्धेन सह शर्वरीम् ।
अतिवाय प्रगे शंखः पुरोपान्तमुपागतः ॥४४५॥ क्वचित् कोलाहलाकीण लोकमालोक्य पिडितम् । कुमारः कौतुकी तत्र मित्र-यक्षयुतो ययौ ॥४४६॥
अपश्यञ्च तदन्तःस्थ शकटं कर्कटीभूतम् । 20 तत्समीपस्थितं कंचिद् वणिजं च धनेश्वरम् ॥४४७॥
अथ कश्चिन्नरं शंखोनाक्षीत् भो ! किमयं वणिक् । चिर्भटीविक्रयायोग्यो वीक्ष्यते तटसंस्थितः ॥४४८n नरः प्राह महाभाग ! धनेन धनदो ह्ययम् ।
सार्थेशः क्रीडयाऽऽदाय चिर्भटी प्रोचिवानिदम् ॥४४९॥ 25 योऽत्ति सर्वा इमा एकस्थानस्थः कर्कटीः पुमान् ।
ददामि तस्य दीनारलक्षमेकमनूनकम् ।४५०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org