________________
नाभिनन्दनोद्धारप्रबंधः । जगाद योगिनं गत्वा कुमारोऽपि रयादिदम् । अहो सहाये निर्भीको मयि स्वार्थ समापय ॥४२५॥ इत्युदित्वाऽसिमादाय तत्समीपमवस्थिते ।
शंखे योगी महाविद्यां ध्यायति स्म समाधिना ॥२६॥ 5 क्षणेन क्षणदाकालः पुरः काल इवापरः। प्रादुरासीदसिकरः कोऽप्यधृष्यो निशाचरः ॥४२७॥ शंखमाक्षिष्य सोऽवोचद् भ्रकुटीभङ्गभीषणः। किमनात्मा! संचिन्त्य भवानिह समागतः ॥४२८॥
अहमेनं हनिष्यामि योगिनं याहि तद् द्रुतम् । 10 मा मुधा रजकस्थाने मृत्यु खरम अवाप्नुहि ॥४२९॥
स प्राह साहसी हंहो मयि सत्यस्य रक्षके । नालमाखण्डलोऽपि स्यात् प्रतिकर्तुं तु को भवान् । ४३०॥ तदाकण्योल्लसद्रोषात् दोषाचरवरो नु तम् ।
दधावे खड्गमुद्यम्य देवेन्द्रमिव दानवः ॥४३१॥ 15 शंखः सिंह इवाभीको निस्त्रिशं नर्तयन् मुदा । निशाचरं द्विपमिव प्रति हन्तुमढौकत ॥४३२।। यावद् व्यापारयत्युग्रं मण्डलार्ग निशाचरः। तावदाहत्य खड्गेन खड्गं तस्य द्विधाऽकरोत् ॥४३३॥
पलादोऽप्यसिमुत्सृज्य तं भुजाभ्यामपीडयत् । 20 त्यक्तासिः सोऽपि ते दोामादायादयमाश्लिषत् ॥४३४॥
वनेभाविव युद्धयन्तौ तौ सुहृद्-यक्ष-योगिनाम् । भय-विस्मय-हर्षादिरसहेतू बभूवतुः ॥४३५॥ पादबन्धाद् बाहुबन्धान्मुष्टिघातात् परस्परम् ।
भूमिलु[]नतो मल्लाविव तौ श्रममापतुः ॥४३६।। 25 शंखोऽपि लब्धलक्षत्वालुब्ध्वाऽवसरमात्मनः ।
धृत्वा पदे तं परितो मौलेरनमयत् क्षणम् ॥४३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org