________________
द्वितीयः प्रस्तावः । देव! केनाप्यलक्ष्येणापहृता मम वल्लभा ॥३८६॥ स विहस्याह भो क्लीब ! जायामपि न रक्षसि । याति मस्तकशून्यानां राज्यं पात्र किमद्भुतम् ॥३८७॥ प्रत्यक्षीभूय यक्षोऽपि प्रोचे स्वामिनसौ द्रुतम् । 5 लभते स्वप्रियां चेत्ते रथं यच्छेत् सशम्बलम् ॥३८८॥ कार्य रथेन मे नास्य प्रियां शीघ्रं समर्पय । कुमारेणेति गदिते यक्षस्तां प्रकटां व्यधात् ॥३८९॥ वल्गितं वीक्ष्य यक्षस्याचिन्तयश्चेतसि स्फुटम् ।
कुमारः कौतुकायासौ मिलितो मम नाटकी ॥३९०॥ 10 पुनः स्वामिविनोदार्थ पथि काश्चिद्गतांशुकाः।
विलूनमूलि(ध)जाः काश्चिद् यक्षश्चक्रे नितम्बिनीः ॥३९१॥ रथं व्य(वि)धाय धौरेयमुक्तं पान्थस्य कस्यचित् । धुर्यो(यो)विनापि वेगेन यक्षो यान्तमदर्शयत् ॥३९२॥
पथः खेदापनोदाय कुमारस्य स यक्षराट् । 15 चेष्टा विचके विविधाः सुभक्त इव सेवकैः(क): ॥३९३॥
तत्कृतैः कुतुकैरेवमजानानः श्रमं क्वचित् । कुमारः ससहायोऽपि प्राप रत्नपुरं पुरम् ॥३९४॥ विशन् सोऽपि पुरेऽश्रौषीद् राजसूडिडिमध्वनिम् ।
हितवाक्यमिव श्रोतुं सद्यः श्रोत्रमसजयत् ॥३९५॥ 20 नृपवल्लभभूपालपुत्री मदनसुन्दरीम् ।
गृहीत(ता)मुग्रदोषेण बकेन शफरीमिव ॥३९६।। उन्मोचयति यस्तस्य राजा यच्छति वाञ्छितम् । अर्थ श्रुत्वेति यक्षोक्तः शंखो डिण्डिममस्पृशत् ॥३९७॥
[युग्मम् ] 25 निन्ये पाटहिकेनाऽसावुपभूपं स भूपभूः।
विहितस्वागतो राशा स्वासनमु(मौ)पवेश्यत ॥३९८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org