SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ६० नामिनन्दनोचारप्रबंधः । शंख वीस्य नृपो दध्यावो(वे)कोऽयं दत्रयोर्दिवः । किमियाय तनूजायाः सौस्थ्यसम्पादनाय मे ॥३९९।। सप्रश्रयं नृपोऽथाह महाभाग! ममाङ्गजाम् । गामिवेभारिणाऽऽकान्तां दोषग्रस्तां विमोचय ॥४००॥ 5 न स मन्त्रो मान्त्रिकाणां न स तन्त्रोऽस्ति तन्त्रिणाम् । न सा विद्या सविधानां भिषजां न च भेषजम् ॥४०१॥ किं चान्यदपि तनास्ति सुतीर्थे विहितं न यत् । परं व्यर्थमभूत् सर्व खलोपकरणं यथा ॥४०२॥ [युग्मम् ] किश्चिदालोच्य यक्षेण शंखोऽऽङ्गीकृतवानथ । 10 राक्षा सोऽन्तःपुरं निन्ये सुता यत्रावतिष्ठते ॥४०३॥ चन्दना-मुरु-कर्पूर-कस्तूरी-कुंकुमादिभिः । अभ्यर्य मण्डलं तत्र राजसुतां न्यवेशयत् ॥४०४॥ ध्यानमापूर्य नासाग्रन्यस्तदृष्टिरनाकुलाः(ल.) । तस्थौ मन्त्रं स्मरन् यद्वा सर्वत्राडम्बरो जयी ॥४०५॥ 15 शंखस्तदानीं शुद्धोऽपि हृदि कौटिल्यमुद्हन् । प्रियंवदोऽपि किन्त्वत्र निन्ये स्वं नामसत्यताम् ॥४०६॥ सबंशजस्य चापस्य मुणस्यास्याथवा यथा । वक्रता कार्यकाले स्यान्निन्द्या नैव तथाऽस्य हि ॥४०७॥ दोषोऽथ वपुषस्तस्या यक्षशक्त्या झट(टि)त्यपि । 20 पलायत(यितः) यतः सन्ति बलिभ्योऽपि बलाधिकाः ॥ विधुन्तुदेनेव विधोमूर्तिदोषेण सा तथा । विमुक्ताऽऽदित्योदिते घुत्या किंचाधिकवपुःश्रिया ॥४०९॥ पित-मात्रादिवर्गस्तां विमााथ निरामयाम् । पुनर्जातामिव सुतां मेने मदनमअरीम् ॥४१०॥ 25 तदैव पितरौ प्रीतौ गुणग्राह्योऽयमेवहि । बरोऽस्त्वस्या विचिन्त्येति कुमारं प्रत्यजल्पताम् ॥४११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy