________________
द्वितीयः प्रस्तावः। अशातकुलशीलाय किमस्मै दीयते सुता ॥३६०॥ संचरन्ति यतो धूर्ताः प्रच्छन्नं जगतीतले। तन्माऽस्मै तनया(यां देहि काकाय इव कोकिला[म्] ॥३६१॥
स प्राह भवता मुझेनाशेनेव किमुच्यते । 5 लब्ध्वा सद्गुणमाणिक्यं तत्कुलं को विलोकयेत् ॥३६२॥
गुणाः स्वयंप्रकाशाः स्युर्दष्ट एव सुवस्तुनि । घनसारः कथं सारः सुरभिः स्यात्परीक्षणात् ॥३६३॥ ततो वदान्य ! मान्योऽयं नूनं मे पार्थनाविधिः।
यतस्तत्लफलीकारः सतां हि प्रथमं व्रतम् ॥३६४॥ 10 प्रत्युत्तरमदत्त्वाऽसौ कुमारस्तमनस्यत (?)।
उचितं रुचितं वस्तु कः सुधीस्त्यक्तुमिच्छति ॥३६५॥ कुटुम्बी उम्बरेणाथ तेनैतां पर्यणाययत् । पार्वतीमीश्वरेणैव हिमालय इवाचलः ॥३६६॥
तया सह सुखं स्वैरमुपभुज्य दिनद्वयम् । 15 सामनुज्ञाप्य सोऽचालीत् पुरो देशविरक्षया ॥३३७॥
श्रीमतीदत्तपाथेयः कुमारः पथि संचरन् । विखिन्नः स्निग्ध-सच्छायं वट बन्धुमिवैक्षत ॥३६८॥ उष्णे शीता हिमे तता छाया यस्य सुखावहा ।
कान्ता-नग-पटीतुल्या तं वृक्ष स समाश्रयत् ॥३६९॥ 20 मित्रदत्तासनो यावत् कुमारस्तत्र तिष्ठति ।
तावटस्थो यक्षः प्रत्यक्षो वाचमूचिवान् ॥३७०॥ अहो मदाश्रये कस्त्वं कस्यादेशेन तस्थिवान् । गच्छ खच्छ! ततः शीघ्र विजिगीषति चेद् भवान् ॥३७॥
तदाकर्ण्य कुमारोऽपि गोपितोत्कर्षविप्लवः । 25 प्राह च्छायार्थिनावावां वृक्षमेतमुपागतौ ॥३७२॥
वेधसा तरवः सृष्टाः सर्वस्योपकृतेः कृते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org