SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ५६ नाभिनन्दनोद्धारप्रबंधः । धनस्य नास्मरत् किन्तु वसुधादर्शनस्य सः ॥३४७॥ गच्छतोऽस्य पुरोपान्ते क्षत्रियः कोऽपि विक्रमी । विदेशे राजसेवार्थं प्रस्थितः पृष्ठतोऽमिलत् ॥ ३४८ ॥ कुमारं प्रणिपत्याथ प्राञ्जलिर्जल्पति स्म सः । 5 यानन्यत्रास्मि सेवायै श्रये त्वामेव सुप्रभुम् ॥ ३४९ ॥ उदारधीः कुमारोऽपि महासत्त्वशिरोमणिः । मित्रत्वेनाश्रयत् तं हि महान्तो नतवत्सलाः ॥ ३५० ॥ अहो राज्यं परित्यज्य निर्ययावेककः पुरात् । कुमारः सद्वितीयोऽभूद्भाग्यं जागर्ति यत्सताम् ॥३५१ ॥ 10 तत्कालमेव मिलितो (तौ) निर्मलौ क्षीरनीरव, य । प्राप्तावैक्यमतः प्रीतेः क (का) रणं शुद्धचित्तता ।। ३५२ || मिथः पथि कथाः प्रौढाः कुर्वन्तौ तौ प्रचेलतुः । भूवीक्षा कौतुकेनाहो दिवो देवाविवागतौ ॥ ३५३॥ सपादयामसमये ग्राममेकमुपागमत् । 15 समित्रः कुत्रचिद भेजे छायामायासशान्तये || ३५४ || तावता ग्रामतः कोऽपि कुटुम्बी बहिरागतः । कुमारं स्मरमध्यक्षं समाधवमिवैक्षत ॥ ३५५॥ प्रणम्य प्राञ्जलिः प्रोचे स कुमारमुदारधीः । मद्गृहं स्वपदस्पर्शन् (र्शात् ) कुरु कल्याणभाजनम् ॥३५६॥ 20 दाक्षिण्य-दक्षिणाक्षिस्थस्पन्देरितमनाः क्षणात् । समुत्थाय समं तेन ससुहृत् तद्गृहं ययौ ॥३५७ || ततः स्नाना-शनाद्याश्च प्रतिपत्तीर्विधाय सः । कुमारस्य पुरः स्वीयां श्रीमतीमानयत् सुताम् ॥ ३५८ ॥ व्यजिज्ञपश्च्च संयोज्य पाणी प्राणितवन्मम । 25 कृतार्थय सुतां स्वामिन् ! स्वपाणिग्रहणादिमाम् ॥ ३५९ ॥ प्रभुभ्रूपक्ल वोल्लास संशितोऽथ सखाऽवदत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy