________________
द्वितीयः प्रस्तावः ।
वृतः पुरन्दर इव विदधे राजपाटिकाम् ॥३३४॥ कदाचिद् भद्रजातीनां शिष्याणामिव शिक्षणम् । चक्रे गजानां जानानो वाजिनामपि तद्गतम् ॥३३५॥ कदाऽपि बुधगोष्ठीषु निविष्टः शिष्टसंस्थितिः । 5 विदुषां संशयानानां मुरुस्तत्वं गृणन्नभूत् ॥३३६॥ उद्यानयान-सद्गीतिगीति-प्रेक्षणकेक्षणैः। प्रीति(त)चित्तः सुखं निन्ये कालं स दिवि देववत् ॥३३७॥ जितस्वर्गसरीवर्गा अनेका भूपकन्यकाः ।
लक्ष्मीवत्यादिका राजा कुमारेण व्यवाहयत् ॥३३८।। 10 शंखः सिषेवे विषयान् पश्चाप्यथ यथासुखम् ।
विवेक्यपि न दृष्येत समयोचितमाचरन् ॥३३९॥ धर्मा-र्थ-कामानभुनक् त्रीनप्येष नृपाङ्गजः। क्रमेण वर्षा-शिशिर- ग्रीष्मर्तृरिव हायनः ॥३४०।।
धर्मोऽर्थजनको लोके इत्यसत्यं वचो यतः। 15 धर्मस्योत्पादकोऽस्याओं दान-देवार्चनादिभिः ॥३४॥
संचरन्नपि सर्वत्र तत्याज न निजस्थितिम् । चित्रं सुखासनस्थोऽसौ भ्रम्यति स्म पुरे मुदा ॥३४२।। निशि सोऽन्येधुरेकाकी निर्गतो वीरचर्यया।
पठ्यमानं श्लोकमेतं केनापि स्म शृणोति सः ॥३४३।। 20 “यो न निर्गत्य निःशेषां विलोकयति मेदिनीम् ।
अनेकाश्चर्यसम्पूर्णी स नरः कूपदर्दुरः" ॥३४४॥ तदाकर्ण्य ततः प्रीतश्चिन्तयामास चेतसि । सत्यं सोऽहं कूपभेको यतेऽतस्तद्दिदृक्षया ॥३४५॥ निश्चित्य चेतसा सोऽथ कस्यापि हि निवेद्य न । 25 कृपाणपाणिरेकाको नगरान्निशि रा(निर् )ययौ ॥३४६॥
न मातुन पितुभ्रातुन स्त्रीणां सुहृदां न च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org