SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ मामिमन्दनोद्धारप्रबंधः । परभागमवापासौ कलाभिः प्रतिवासरम् ॥३२१॥ क्रमेण पादचारेण खेलन् घुर्घरकारवैः। क्षिपतीव सुरान् क्रीडानभिज्ञान् बालकैः सह ॥३२२॥ पदमंडक-दानादि क्षौरकर्मादिकाः क्रियाः। 5 अकारयत् पिता सर्वा महेन महता सह ॥३२३॥ सवयोभिः सवयोभिः सहितः स्व(स)हितः सदा । कुमारः स्वैरमक्रीडत् स्मरवन्माधवादिभिः ॥३२४॥ अथाध्ययनयोग्योऽयमित्यवेत्य सुतं पिता । उपाध्यायाय पाठाय ददौ सत्कारपूर्वकम् ॥३२५॥ 10 स्वीकुर्वाणश्च स कलाः सकला अपि तत्क्षणात् । सकौतुकमुपाध्यायं चक्रे किं पठितं पुरा ॥३२६।। कलाविशेषान् सर्वान् यः कुम्भयोनिरिवोदधीन् । कृत्वा कण्ठगतानासीदनन्तमहिमास्पदम् ॥३२७॥ हंसोज्ज्वलकलः कण्ठे रेखात्रयमयं दधत् । 15 शङ्कः शंख इवोल्लासिसाधुनादोऽभवद् भुवि ॥३२८॥ मुमोच स क्रमाद् बाल्यं सुधीर्माल्यमिवात्मकम् । ताहकलावतां यद्वा बालत्वं कुत्र तिष्ठति ॥३२९॥ तदङ्गं यौवनोत्तु चङ्गतामभवत्तराम् । स्वभावसुभगं स्वर्ण विशिष्योजालितं हि तत् ॥३३०॥ 20 मित्रमण्डलमध्यस्थश्चरन्नपि सदाऽद्भुतम् । महोदयी राजसूनुर्जज्ञे वऋगतिर्न तु ॥३३१॥ समुद्र इव गंभीरो धीरो मेरुरिव स्थिरः । क्षीरवन्निर्मलयशाः पिकवत् प्रियभाषितः ॥३३२॥ कल्पपादपवद् दाता प्रतापी सवितेव सः। 25 गुणैरशेषैरप्येवं वर्णनीयो न चापरः ॥३३३॥ [युग्मम्] स कदापि गजारूढो गज-वाजि-पदातिभिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy