SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः । ५३ मिथःप्रदत्तताम्बूलमुलूलध्वनिबन्धुरम् । उल्लसत्पुलकं हल्लीसकसंस्थमहल्लकम् ॥३०९॥ नृत्यद्वाराङ्गनावारहाराद् गलितमौक्तिकैः। विन्यस्तस्वस्तिकमिव कुङ्कुमामहीतले ॥३१०॥ 5 विहितोदारशृङ्गारभूषणस्त्रैणमीदृशम् । दशाहानि विशामीशः सूनुजन्मोत्सवं व्यधात् ॥३१॥ [चतुर्भिः कलापकम्] विशुद्धौ सूतकस्याथ कृतायां स्वकुलस्थितौ । सुवासिनीभिर्विदधे पितुः सूनोश्च मालम् ॥३१२॥ 10 निमन्त्रिगोत्रि-मित्रादिस्वजनान् विविधाशनैः। भूपालो भोजयामास भक्त्याऽसावात्मना समम् ॥३१३॥ भुक्तोत्तरमथाराध्य ताम्बूल-वसनादिभिः। स्वजनान् प्राञ्जली राजोवाच वाचं सुधामुचम् ॥३१४॥ यदा पुत्रे गर्भस्थे मात्रा शंखो हरेः करात् । 15 प्राप्तस्तेनास्य नामास्तु शंखो भवदनुज्ञया ॥३१५॥ एवमस्त्विति तैरुक्त प्रीतचित्ता पितृष्वसा। शिशुशीर्षेऽक्षतक्षेपपूर्व नाम चकार तत् ॥३१६॥ सकाम इव धात्रीभिर्विषयेच्छाभिरन्वहम् । पञ्चभिः पोष्यमाणोऽसौ स्वक्षेत्रोपचयं दधौ ॥३१७॥ 20 पिता स्वमङ्कमारोप्य सिञ्चन्तीतिरसैः सुतम् । सहेलं लालयामास कल्पवृक्षं सुमेरुवत् ॥३१८॥ संचचारेष्वेष प्रति तदा भूपसुता नृपम् (१) । क्षणे क्षणे राजसूनुः पुषेवान्यान्यराशिषु ॥३१९॥ माता तमुक्त्वाऽऽशिश्लेष स्तन्यपानोत्सुका(क)तुकम् । 25 तवा(दाss)स्यमधुपानोद्यन्मूच्र्छाब्या किन्तु नास्मरत् ॥ द्वितीयेन्दुरिवानन्ददायी देहेन तेजसा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy