SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ माभिनन्दनोद्धारप्रबंधः । पूरयामास वसुधाधीशः सकलदोहदान् । तारग्भाग्यवतां कार्ये किं विलम्बः क्वचिद् भवेत् ॥ २९६ ॥ मनोऽनुकूलैराहारैर्विहारैः शयनासनैः । ५२ सिचयैः सिंचयैस्तुष्टा पुष्टि गर्भस्य साऽऽदधे ॥ २९७॥ 5 सा व्यतीतेषु पूर्णेषु मासेषु दिवसेष्वपि । स्वोश्च स्वक्षेत्रसंस्थेषु ग्रहेषु निखिलेष्वपि ॥२९८॥ जयन्तमिव पौलोमी सुखेन सुषुवे सती । सूनुमन्यूनपुण्याढ्यं दीपयन्तं दिशो रुचा ॥ २९९ ॥ [ युग्मम् ] फुल्लगलैः सौविदल्लैर्दासीभिश्च प्रमोदितः । 10 गत्वा स्पष्टमवर्धिष्ट भूपतिः सुतजन्मना ॥ ३०० ॥ वर्धापकेभ्यो विविधाः प्रसादा ददिरेऽमुना । असुभ्योऽपि वसुभ्योऽपि यत्सुतो जगतोऽधिकः ॥ ३०९ ॥ विपक्षा अपि यजन्माकर्ण्य हर्षमुपाययुः । युद्धश्रद्धां प्रवृद्धः सन्नसौ पूरयितेति नः ॥ ३०२ ॥ 15 आयुर्धृतमिति प्रोक्तं गुडमाधुर्यमध्यतः । ददौ गुडाज्ये पुत्रायुर्वृद्धयै लोकाय भूमिपः ॥ ३०३ ॥ मृत्तिका मातृकापाढं पढद्भिर्बालकवजैः । समं समेत्योपाध्याय (या) राजानं तुष्टुवुर्गुणैः ॥३०४॥ उपायनान्युपादाय राजलोकानुपागतान् । 20 पौरांश्च पूजयामास तुष्टिदानैर्नृपोऽखिलान् ॥ ३०५ ॥ मुमोच कारागारेभ्यो बन्दिनो बन्दिनोऽपरान् । भृशं नृपोऽनुजग्राह समुदानिय (मुपायनि) तैर्धनैः ॥ ३०६ ॥ प्रति प्रतिगृहं नागरैरुवृत्तैर्ध्वजैः । पुत्रजन्मोत्सवे हर्षान्नृत्यतीव पुरं तदा ॥३०७॥ 25 दीयमानं (न) महादानं नृत्यत्पादकुलाकुलम् । कर्पूरक्षोदमेव (द) स्वि प्रमोदकुसुमोत्करम् ||३०८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy