SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः । अत्यादरसमाहूते समग्रगुणसूरिषु । समायातेषु सत्साध्वी-श्रावक-श्राविकादिषु ॥२५८॥ मन्दिरे पार्श्वनाथस्य महामहपुरस्सरम् । श्रीदेवमुप्तः स्वपदे सिद्धसूरिं गुरुं व्यधात् ॥२५९॥ [त्रिभिर्विशेषकम्] साधुराशाधरः संघवात्सल्य विदधे तथा। अस्मरन् वस्तुपालस्य सर्वदर्शिनिनो यथा ॥२६०॥ श्रीदेवगुप्ता मुरवः अमेण त्रिदिवं गताः। तत्संस्कारधरायां तु स्तूपं साधुरकारयत् ॥२६१॥ 10 अथ श्रीसिद्धसूरीणां स्थापनाकरणादनु । साधोराशाधरस्यासीत्समृद्धिरधिकाधिका ॥२६२॥ योऽमर्त्यमहितोऽमेयमन्दरागस्थिति वहन् । सर्वकामितदानेषु कल्पद्रुम इवार्थिनाम् ॥२६३॥ यस्य वेश्मनि सूरीणां साधवो युग्मसंस्थिताः। 15 प्रासुकैरन्नपानाद्यैर्विचरन्ति यथारुचि ॥२६॥ एकाकिनः साधवो ये विद्यन्ते गच्छनिःसृताः। तेषां विचरतां संख्यां कर्तुं कोऽपि न हि क्षमः ॥२६५॥ योगिनस्तापला विप्रा रङ्काः क(का)पटिकास्तथा । भट्टाश्चिट्टा गायना ये ददौ तेषामपीहितम् ॥२६६॥ 20 आशाधरोऽप्यभूदाशारूपको यः सदार्थिनाम् । धृतसत्त्वोऽपि यः सत्त्वोपकृतौ कृतनिश्चयः ॥२६७॥ रेजे रत्नश्रिया पल्या स भाग्याधिकया तया। रोहिण्येव निशानाथः स्फुरदम्बरतारया ॥२६८॥ असुतया नायिकया सुसुख्यो(मुख्या)क्षेत्रसप्तके। 25 सस्यवापविधिश्चके यः सुखेन गृहस्थया ॥२६९॥ अन्यदा पौषधागारे साधुराशाधरो ययौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy