________________
नाभिनन्दनोद्धारप्रबंधः ।
सिद्धसूरिगुरून्नत्वा प्राञ्जलिः समुपाविशत् ॥ २७० ॥ सूरयोऽथ यथावस्थभवभावविभाविकाम् । कर्तुमारेभिरे धर्मदेशनां मुत्किरा गिरा । २७१ ॥ यथा भवेऽत्र भ्रमतां देहिनां दुर्लभा किल । 5 मानवत्वादिसामग्री धर्मसाधनहेतुका ॥ २७२ ॥ मानुष्यमार्यविषयः सुकुलं भावना तथा । गुरूपदेशश्रवणं नीरोगत्वं विवेकिता ॥ २७३॥ तद् दुष्प्रापामिमां प्राप्य सामग्रीमखिलां बुधैः । धर्म एवोद्यमः कार्यः सिद्धिः स्यात् सुलभा यथा ॥ २७४॥ 10 धर्मो जिनैरयं प्रोक्तः सावद्यार्थविवर्जनम् ।
५०
सर्वतो देशतो वापि द्विभेदः स भवेत् पुनः ॥ २७५॥ सर्वसावद्यविरतिश्चारित्रं व्रतिनां भवेत् । आद्यो भेदोऽपरो देशविरतिर्गृहिणामपि ॥२७६॥ अहिंसा - सूनृता - स्तेय ब्रह्मचर्या - परिग्रहैः । 15 सर्वतस्त्यक्तसंगानां यतीनां स महाव्रतैः ॥ २७७॥ अहिंसा - सूनृता - स्तेय ब्रह्मचर्या परिग्रहैः देशतस्त्यक्तसङ्गस्य गृहिणी हि व्रतात्मकः ॥२७८ || दिग्विरतिप्रभृतयो गृहिधर्मे गुणास्त्रयः ।
तथा सामायिकाद्यं च शिक्षावतचतुष्टयम् ॥ २७९ ॥ 20 एवं द्वादशभेदः स्याद् गृहिधर्मस्तथाऽपरे ।
दान - शील- तपो भावास्तैराराध्यो विशेषतः ॥ २८० ॥ तन्निदानं सदा दानं पात्रेभ्यो देयमुत्तमम् | ऐहिकामुष्मिका लक्ष्म्यो लभ्यन्ते शंखवद्यतः ॥ २८९ ॥
तथाहि
25 अस्यैव जम्बूद्वीपस्य दक्षिणाशाविशेषके । धर्मभ्या धान्यभवक्षेत्रे क्षेत्रे भरतनामनि । २८२॥
Jain Education International
पात्रदानविषये
शेखराजकथा |
For Private & Personal Use Only
www.jainelibrary.org