________________
नाभिनन्दनोद्धारप्रबंधः।
परमेकोऽपि गच्छेऽस्मिन् भवेदूकेशवंशजः। विशुद्धोभयपक्षो यः स आचार्यों गुणाश्रयः ॥२४॥ ततः साधो ! यदा देवी स्वयमेवोपदेश्यति । तदा सूरिपदं दास्ये गोलकं त्वत्करेऽथवा ॥२४७॥ 5 एवमुक्तो देवगुप्तः साधुराशाधरोऽवदत् ।
पूर्यतां भगवन् ! कः किं स्वस्थिति लड्डन्येत्सुधीः ॥२४८॥ वर्षाणां चतुरशीतर्गतानां गुरवो निजाम् । विज्ञातुमायुानस्थास्ते स्मरन्ति स्म सत्यकाम् ॥२४॥
प्रत्यक्षीभूय साप्यूचे प्रयस्त्रिंशहिनानि ते। 10 भायुरस्ति तत्रैव कुरु सूरिपदं स्वयम् ॥२५०॥
देवि! सूरिपदस्यैषु शिष्येष्वहों न वीक्ष्यते। सत्कस्मै दीयते सूरिपदं किं करवाण्यहम् ॥२५१।। देव्यूचे बालचन्द्रोऽयमर्हः सूरिपदस्य ते ।
ऽभिहिता भाग्यवानेवाजीवं सिद्धकरोऽपि च ॥२५२।। 15 अथाशाधरमाकार्य प्रोचिरे सूरयः गिरम् ।
अध मे देवताऽऽदेशो निशीथिन्यामभूदयम् ॥२५३।। यदितो दिवसादायुस्त्रयस्त्रिंशदिनानि ते (मे)। आस्ते तद्वालचन्द्रं द्राक् निजपदे निवेशय ॥२५४।।
पूर्वमेवात्र कार्ये ते कार्ये भावोऽभवत्ततः। 20 साधो! विधेहि सामग्री समग्रामपि सत्वरम् ॥२५५।।
स्वं गुर्वादेशतो धन्यं मन्यमानः सपद्यपि। स साधुः कारयामास सामग्रीमखिलामपि ॥२५६।। ख-वनि-वनि-चन्द्राब्दे (१३३०)श्रीविक्रमनृपाद् गते । फाल्गुने मालि नवमीदिवसे शुक्रवासरे ॥२५७।। * अत्र कश्चित् पाठस्त्रुटित: सभाव्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org