________________
द्वितीयः प्रस्तावः ।
ततो व्यतीते दुर्भिक्षे विशिष्टेषु तु साधुषु । मिलितेषु यक्षदेवाचार्याश्चन्द्रगणो (णम) मिलन ॥२३३॥ तदादि चन्द्रगच्छस्य शिष्यप्रवाजनाविधौ । श्राद्धानां वासनिक्षेपे चन्द्रगच्छः प्रकीर्त्यते ॥ २३४ ॥ 5 गणः कोटिकनामापि वज्रशाखाऽपि सम्मता । चान्द्रं कुलं च गच्छेऽस्मिन् साम्प्रतं कथ्यते ततः ॥ २३५॥ शतानि पश्च साधूनां पुनर्गच्छेऽमिलन्निह । शतानि सप्त साध्वीनां तथोपाध्याय सप्तकम् ॥२३६॥ दश द्वौ वाचनाचार्याश्चत्वारो मुरवस्तथा । 10 प्रवर्तकौ द्वावभूतां तथैवोभे महत्तरे ||२३७॥ द्वादश स्युः प्रवर्तिन्यः सुमती द्वौ महत्तरौ । मिलिते (तौ) चन्द्रगच्छंतेः (च्छान्तः) संख्येयं कथ्यते गणे ॥ पञ्चनामक्रमेणाथ जायमानेषु सूरिषु ।
सूरयः समजायन्त पुनः श्रीकक्कसूरयः ॥ २३९ ॥ 15 श्री सत्यदेवी - सर्वाण (र्वानुभूति - चक्रेश्वरीगिरा । श्रीरत्नप्रभसूरीणां यक्षदेवस्य च प्रभोः ॥ २४० ॥ नाम्नी निवारयामास गुरुः पात्राणि साम्प्रतम् । ताहंशि न भविष्यन्ति दीयेते यादृशामिमे ॥ २४९ ॥ तदादि नामद्वितयं मुख्यं कोशे व्यवस्थितम् । [ युग्मम् ] 20 वर्तमानमिदानीं तु पाश्चात्यमभिधात्रयम् ॥ २४२॥ नामत्रयक्रमेणाथ सूरयो भूरयोऽभवन् ।
यावत् श्रीसिद्धसूरीणां पट्टेऽभूवमहं गुरुः ॥२४३॥ एवं त्रीण्येव नामानि जायन्तेऽत्र गणे क्रमात् । चतुर्थ नाम न भवेदेक एव गुरुस्ततः ॥ २४४ ॥ 25 परं येss गणे पूर्व गुरवो गुणिनोऽभवन् । तेषां ख्यातिवृत्तानि यदि देवगुरुः स्वयम् ॥ २४५||
Jain Education International
For Private & Personal Use Only
98
www.jainelibrary.org