________________
४६ नाभिनन्दनोद्धारप्रबंधः । यक्षदेवाह्वयं सूरि स्वपदे विनिवेश्य च । वर्षाणां चतुरशीतेरायुषोऽन्ते दिवं ययौ ॥२२०॥ चतुभिः श्रीयक्षदेवस्तत्पदे पूर्वाचल इवार्यमा । कलापकम
सूरिरभ्युद्यतो रेजे तमःस्तोमहरोऽङ्गिनाम् ॥२२१॥ 5 सूरिः कोरण्टकपुरे कदापि विहरन् ययौ । माणिभद्राख्ययक्षस्य समनि स्थितिमादधे ॥२२२॥ तच्छिष्यो लघुकः कोऽपि यक्षमूर्द्धनि मौय॑तः । बालभावाश्चञ्चलत्वात् पात्रक्षालनवार्यधात् ॥२२३॥
ततः प्रकुपितो यक्षः शिष्यं तं पहिलं व्यधात् । 10 सूरयो ज्ञानतो ज्ञात्वा निग्रहं साग्रह व्यधुः ॥२२४॥
निगृहीतः स आचार्यः सेवकत्वं प्रपन्नवान् । यक्षाराद्धपदस्यास्य सान्वयं नाम चाभवत् ॥२२५॥ ककसूरिं गुरुं सोऽपि स्वपदेऽस्थापयत् प्रभुः।
यद् गुणानेश्वरो गातुं सोऽपि चित्रशिखण्डिजः ॥२२६॥ 15 तस्य पदे सिद्धसूरिर्मुरुरासीद्धियां निधिः।
वीक्ष्य यतलूक्ष्मदर्शित्वं कविः स्वाक्षि रुषाऽकृषत् ॥२२७॥ तत्पदे श्रीदेवगुप्तसूरयो गुणभूरयः । जशिरे यद्यशःशौक्ल्यदूषितोऽगान्नभः शशी ॥२२८॥
नामभिः पञ्चभिर्गच्छः पश्चानन इवाननैः । 20 भासमानोऽभिनत् वादिकुम्भिकुम्भस्थलान्ययम् ॥२२९॥
एवं व्यतीयमानेषु गच्छेऽस्मिन् सूरिषु अमात् । ककसूरिगुरुर्जशे विशवर्ण्यगुणाश्रयः ॥२३०॥ तदन्वये यक्षदेवसूरिरासीद्धियां निधिः।
दशपूर्वधरो वज्रस्वामी भुव्यभवद् यथा ॥२३१॥ 25 दुर्भिक्षे द्वादशादीये जनसंहारकारिणि ।
वर्तमाने नाशकेन(केऽत्र) स्वर्गेऽगुर्बहुसाधवः ॥२३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org