SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः । अपूपुजन् सुरीं श्राद्धैः सूरयो द्वारसंस्थिताः । अवदंश्च निजाभीष्टं लाहि देवि! ददाम्यहम् ॥२०७॥ इत्युक्त्वोभयपार्श्वस्थपक्कान्नभृतशुण्डिके। पाणिभ्यां घूर्णयित्वोचुः स्वाभीष्टं देवि! गृह्यताम् ॥२०८॥ 5 अथ प्रत्यक्षरूपेण सूरीणां पुरतः स्थिता। प्राह प्रभो! मदभीष्टा कडडा मडडा परा ॥२०९॥ गुरुरूचे न सा युक्ता लातुं दातुं च ते मम । पलादा राक्षसा एव देवा देवि! सुधाशनाः ॥२१०॥ ततो जीवदयाधर्म सारमेकं समाश्रय । 10 बुद्धा तमुररीकृत्य गुरुक्तं प्राह सा सुरी ॥२११॥ परमस्मि सारणायाः स्मर्तव्या समये सदा । धर्मलाभः प्रदातव्यो देवतावसरे कृतो (तौ) ॥२१२॥ तथा कुङ्कुम-नैवेद्य-कुसुमादिभिरुद्यतैः। श्रावकैः पूजयेध्वं मां थूयं साधर्मिकीमिव ॥२१३॥ 15 दीर्घदर्शिभिरालोच्य श्रीरत्नप्रभसूरिभिः । तद्वाक्यमुररीचक्रे यत् सन्तो मुणकाक्षिणः ॥२१४॥ सत्यप्रतिज्ञा जातेति चण्डिका पापखण्डिका । सत्यकेति ततो नाम्ना वविदितं भुवनेऽभवत् ॥२१५॥ एवं प्रबोध्य तां देवीं सर्वत्र विहरन् प्रभुः । 20 सपादलक्षं श्राद्धानामधिकं प्रत्यबोधयत् ॥२१६॥ श्रीमहावीरनिर्वाणाद् द्विपञ्चाशति वत्सरे । गुरोः सूरिपदं प्राप्य ततोऽष्टादशहायनैः ॥२१७॥ ऊकेश-कोरण्टकयोः पुरयोस्त्रिशलाभुवः। जिनस्य बिम्बे संस्थाप्य चामुण्डां प्रतिबोध्य च ॥२१८॥ 25 सपादलक्षमधिकश्राद्धानां प्रतिबोध्य च । चारित्रं निरतीचारं पालयित्वा यथोदितम् ।.२१९॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy