SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ नामिनन्दनोद्धार प्रबंधः । अहं रक्षां करिष्यामीत्युक्ते सूरिभिरर्चनात् । निवृत्ताः श्रावकाः सर्वे कुप्यन्ति स्माथ सा गुरौ ॥ १९४॥ छलं विलोकयन्त्यस्थात् सा गुरूणामहर्निशम् । सायं ध्यानविहीनानां नेत्रपीडामकल्पयत् ॥ १९५॥ 5 विज्ञाय ज्ञानतो हेतुं पूज्या देवीमकीलयन् । तथा यथा सकष्टाऽभूच्छल्यकीलितदेहवत् ॥१९६॥ अज्ञानभावविहितोऽपराधः क्षम्यतां मम । ४४ न विधास्ये पुनः स्वामिन्नेवं जातु प्रसीदत ॥ १९७॥ सूरिरुचे कथं रोषः साऽऽह मत्सेवकान् भवान् । 10 अरक्षयन्मदभीष्टं कुर्वाणान् तेन रोषिणी ॥ १९८ ॥ किमभीष्टमिति पृष्ठे कडडामडडा मम । artist देवि ! तेsभीष्टं मदुक्तं चेत् करिष्यसि ॥ १९९॥ लब्धेऽभीष्टे प्रभोऽवश्यं वश्या त (त्व) त्कामितं द्रुतम् । भवित्रीति वदन्तीं त्वां जमुराचार्यपुङ्गवाः ॥ २००॥ 15 निजप्रतिज्ञावचने स्थिरीभाव्यं त्वया सदा । कडडां मडडां देवि ! दास्ये तत्र रति कृथाः || २०१ || प्रतिज्ञाय गुरूक्तं तत् देवी सद्यस्तिरोदधे । प्रातः सर्वानपि श्राद्धान् गुरवः प्रत्यमीलयन् ॥ २०२ ॥ मिलितानां श्रावकाणां पुरतः सूरयोऽवदन् । 20 पक्कान्नानि वि[धा]प्यन्तां सुहाल्याप्रभृतीनि भो ! ॥ २०३ ॥ प्रतिगेहूं घनसारा - गरु - कस्तूरिकादिकः । भोगः संमीलि (ल्य) तां भा ( भो) ग्यो गृह्यतां कुसुमानि च ॥ कृत्वैवं पौषधागारे शीघ्रमागम्यतां यथा । चण्डिकायतने यामः संघेन सहिता वयम् ॥ २०५ ॥ 25 पूज्योपस्करमादाय श्रावकाः पौषधौकसि । अभ्येयुः सूरयः सार्धं तैर्देषीसदने ययुः ॥ २८६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy