SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ४० नामिनन्दनोद्धारप्रबंधः । नोलुङ्ग्यं जन्म तीर्थे मत्वाऽतोऽवततार च । प्रणम्य भक्त्या न्यषदद् देशनाकर्णनेच्छया ॥१४२॥ सूरयोऽपि हि संसारासारतापरिभाविकाम् । ताहशी देशनां चक्रुः स यथाऽभूद् विरक्तधीः ॥१४३॥ 5 निवेश्याथ सुतं राज्येऽनुज्ञाप्य च निजं जनम् । विद्याधरपञ्चशतीयुतो व्रतमुपाददे ॥१४४॥ स गीतार्थः क्रमेणाथ सूरिभिः खपदे कृतः। मुनिपञ्चशतीयुक्तो विजहार धरातले ॥१४५॥ कदाचिदूकेशपुरे सूरयः समवासरत् । 10 सूरीणां तस्थुषां कोऽपि नाकार्षीद् वन्दनादिकम् ॥१४६॥ तमनादरमालोक्य सूरीणां शासनामरी । गौरवार्थ शासनस्योत्सर्पणायै मनो व्यधात् ॥१४७॥ इतश्च श्रेष्ठी तत्रास्ते ऊहडः कृष्णमन्दिरम् । कारयन्नतुलं नित्यं पुण्यवान् पुण्यहेतवे ॥१४८॥ 15 तन्मूलनायककृते श्रीवीरप्रतिमां नवाम् । तस्यैव श्रेष्ठिनो धेनोः पयसा कर्तुमादणात् ॥१४९॥ घटोत्री श्रेष्ठिनो धेनुः सायं निर्गत्य गोकुलात् । लावण्यहूदनामाद्रौ क्षीरं क्षरति नित्यशः ॥१५०॥ गोपाल: श्रेष्ठिनाऽप्रच्छि दुग्धाभावस्य कारणम् । 20 तेन सम्यग् विनिश्चित्य कथितं दर्शितं च तत् ॥१५१॥ सोऽपि विप्रानथापृच्छच्छेष्ठी दर्शनिनोऽखिलान् । खगोर्दुग्धस्रावहेतुं तेऽप्याख्यनकभाषया ॥१५२॥ मिथोविभिन्नवाच्येभ्यस्तेभ्यः संदिग्धमानसः । मासान् पश्च व्यतिक्रामत् साधिकान् कतिभिर्दिनैः॥१५३॥ 25 सूरयोऽपि मासकल्पं तत्र कृत्वाऽन्यतो गताः । चतुर्मासककल्पान्ते पुनस्तत्पुरमागमन् ॥१५४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy