________________
द्वितीयः प्रस्तावः ।
तान् पुरोधानभूभागे संस्थितानवगत्य सः । सूरीनुपेत्य पप्रच्छ श्रेष्ठी संदेहमात्मनः || १५५ ।। तद्विज्ञाय शुभोदर्क सूरिः प्रोवाच तं स्फुटम् । ततस्ते संशयं श्रेष्ठिन्नपनेष्याम्यसंशयम् ॥१५६॥ 5 श्रद्दधानः स तद्वाक्यं स्वमन्दिरमयाद् रयात् । सूरयोऽपि व्यधुर्ध्यानं निश्यागाच्छासनामरी ॥१५७॥ व्यजिज्ञपदिदं देवी प्रभो ! वीरजिनेशितुः । कुर्वाणाऽस्मि नवं विम्बं षण्मास्या तद् भविष्यति ॥ १५८ ॥ प्रभवः प्रोचिरे देवि ! प्रत्यक्षीभूय तत्पुरः ।
10 सर्वमेतत् समाख्याहि सू (स्व) मुखेन यथायथम् ॥ १५९ ॥ साऽपि गुर्वाशया गत्वा तत्र प्रत्यक्षरूपिणी ।
श्रेष्ठिनं गतनिद्रं द्राकू माह विस्मितमानसम् ॥ १६०॥ भो श्रेष्ठिन् ! गर्वनुज्ञाता जा (ssया) ताऽहं शासनामरी । गोधा (स्त्रा) वहेतुं निरतुं (?) शृणु तत्प्रयताशय ! ॥ १६९ ॥ 15 स्वङ्गोक्षीरेण वीरस्य कुर्वाणा प्रतिमां नवाम् ।
ast मास्म तत्कार्षीः सन्देहं गेहमेनसः ॥ १६२ ॥ इत्युक्त्वा सा तिरोऽधत्त सोऽपि मोहवशंवदः । प्रार्तगत्वा च नत्वा च गुरुपादावुपाविशत् ॥ १६३॥ संयोज्य पाणी सोऽपृच्छत् प्रश्नं स्वीयमथ प्रभुः । 20 प्रोचे शासनदेवी स आचचक्षे स्वयं निशि ॥ १६४ ॥ यद्यप्येवं परं पूज्यैस्तथापि प्रतिपाद्यताम् । ततः सर्वं यथावृत्तं गुरुराख्यातवानपि ॥ १६५॥ व्यजिज्ञपदथ श्रेष्ठी शीघ्रं संचलतो (त) प्रभो ! | यथा वीरजिनेशस्य बिम्बं निष्काश्यतेऽधुना ॥ १६६॥ 25 सूरयोsपि विलम्बस्व सा (श) रदः सप्तवासरीम् । आनेष्यामः शुभे लग्ने पूर्णीभूतमिदं जगुः ॥१६७॥
Jain Education International
ต
For Private & Personal Use Only
www.jainelibrary.org