SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः । ग्लान भा]वास्थिताः पूज्या विजयन्ते जरावृताः। तत् कुरुध्वं सूरिपदं कुर्वेऽहं विभवव्ययम् ॥१२९॥ तच्छुत्वा सुरयः प्रोचुः साधो! नेयं गणस्थितिः। यद्विना सञ्चिकादेशमपरः क्रियते गुरुः ॥१३०॥ 5 सैव देवी तदादेशं यदाऽस्माकमपि स्वयम् । प्रदास्यति विधास्यामस्तदा सूरिं न चान्यथा ॥१३॥ साधुः प्राह प्रभोऽन्यत्रैकैकस्मिन्नपि सूरयः। क्रियन्ते बहवः किं नो गण एको भवेद् गुरुः ॥१३२॥ तद् गच्छसंस्थितिं पूज्याः! किश्चित् श्रावयताधुना। 10 यदविज्ञातवृत्तान्तो मत्यों भावि(वी)विमूढवत् ॥१३३॥ गुरुरूचेऽखिलं वृत्तं गदितुं न वयं क्षमाः । संक्षेपेण शृणु परं कथ्यमानमिदं मया ॥१३४॥ अस्यामेवावसर्पिण्यां प्रयोविंशजिनेशितु।। ऊकेशगच्छसंस्थितिः। शिष्यः श्रीपार्श्वनाथस्य शुभदत्तो गणेश्वरः ॥१३५॥ 15 केशिनामा तद्विनेयः यः प्रदेशिनरेश्वरम् । प्रबोध्य नास्तिकाद्धर्माजैनधर्मेऽध्यरोपयत् ॥१३६॥ तच्छिष्याः समजायन्त श्रीस्वयंप्रभसूरयः। विहरन्तः क्रमेणैयुः श्रीश्रीमालं कदापि ते ॥१३७॥ तस्थुस्ते तत्पुरोद्याने मासकल्पं मुनीश्वराः। 20 उपास्यमानाः सततं भव्यैर्भवतरुच्छिदे ॥१३८॥ तदा च वैताढ्यनगे मणिरत्न इति प्रभुः। विद्याधराणामैश्वर्य पालयन्नस्ति विश्रुतः ॥१३९॥ स चान्यदाऽष्टमद्वीपे दक्षिणस्यां दिशि स्थिते । नित्योद्यताअनगिरौ शाश्वतान् जिननायकान् ॥१४०॥ 25 विवन्दिषुर्विमानानां लक्षण सहितोऽम्बरे ।। गच्छन् ददर्श तान सूरीन् मुनिपञ्चशतीयुतान् ॥१४१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy