SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ नाभिनन्दनोद्धारप्रबंधः । प्रतिज्ञायेत्यसौ साधुस्ततः प्रभृति यद्धनम् । उपार्जयत्यल्पमपि सर्व तद्धर्मसात्करोत् ॥११॥ अन्यदा श्रीदेवगुप्तसूरीणां वन्दनाय सः। ययौ पोषधशालायां शालायां पुण्यदन्तिनः ॥११७॥ 5 देवतावसरं तत्रावसरे कुर्वतो गुरुन् । वन्दित्वा समुपाविक्षद् गुरुशुश्रूषणाय सः ॥११८॥ तदा गमे(ते)षु भिक्षार्थ साधूवूपाश्रये रयात् । क्रीडन्ती कन्यका काचिदाययौ सप्तवार्षिका ॥११९॥ तदानीमेव तदेहेऽवतीर्णा सत्यका सुरी। 10 पृष्टा प्रभुभिराचख्यौ सर्वार्थाश्चित्तचिन्तितान् ॥१२०॥ आशाधरोऽपि हि गुरुन् नत्वा प्राह प्रभो! मम । कदा कस्माद्धनं भावि न वेति पृच्छन्यतां सुरी ॥१२१॥ गुरुपर्यनुयुक्ता सा जगाद जगदीश्वरी। स्वल्पैरहोभिरेवास्य मिलिष्यति धनं बहु ॥१२२॥ 15 परं दिशो दक्षिणस्या भावी लाभोऽस्य सर्वदा । नोत्तरस्या न पूर्वायाः पश्चिमायास्तथा नहि ॥१२३॥ इत्युदीर्यान्तर्हितायां सत्यकायामथ प्रभुः। आशाधरशिरस्याधात् वासानाशातरूधि(नसातरोध)कान् ॥ ततो देवगिरावाशाधरः साधुरमंडयत् । 20 यातायातैर्बान्धवानां व्यवहारमनारतम् ॥१२५॥ क्रमेण व्यवसायेन मन्दरेण विलोडित-। दक्षिणाशाम्बुधौ लक्ष्मी स लेभे पुरुषोत्तमः ॥१२६॥ पूर्वादिष्टगुरूणां स संस्मरन् धर्मकर्मसु । व्ययति स्म धनं सप्तक्षेत्रेषु विशदाशयः ॥१२७॥ 25 अथ लक्षेश्वरीभूतः साधुरासाधरोऽन्यदा। श्रीदेवगुप्तसूरीणां विज्ञप्तिं पुरतोऽकरोत् ॥१२८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy