SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३२ नाभिनन्दनोद्वारप्रबंधः । आगतोऽसि कुतो देशात् स किशगुणद्धिमान पुरं तत्र वरं किंच सर्वमाख्याहि मे पुरः ॥३९॥ स आख्यद् गौर्जराद् देशादायातोऽस्मि महामते!। शक्तः स्यां तद्गुणान् वक्तुं यदि जिह्वा सहस्त्रवाक् ॥४०॥ 5 तथाऽपि लेशतो देशगुणान् कानपि वर्णये। समृद्धिर्यद्यपीन्द्रस्याद्भुता तकि न कथ्यते ॥४१॥ समस्तसस्यसम्पत्तिनिष्पत्तिप्रत्यलाऽचला। प्रत्यासन्नजलापूर्णकूपाऽनूपाऽस्ति यत्र भूः ॥४२॥ यत्र नारंग-जंबीर-जम्बू-निम्ब-कदम्बकाः। 10 रंभा-शोभांजना-स्वच्छकपित्थ-करमईकाः ॥४३॥ प्रियालु-पीलु-माकन्द-श्लेष्मातक-बिभीतकाः। बीजपूर-खर्जूर-द्राक्षे-शु-पनसादयः ॥४४॥ बकुलः केतकी जाती चम्पका शतपत्रिका । मल्लिका-वालक-जपा-समूला-यूथिकादयः ॥४५॥ 15 फलन्ते(न्ति) येषु(ये तु) पुष्प्यन्ति तरवः केऽपि भूतले। कियन्तस्तव कथ्यन्ते सन्ति सर्वेऽपि तत्र ते ॥४६॥ चतुर्भिः कलापकम् । मुद्गा-ढकी-शालि-माष-गोधूमाश्च युगंधरी । इत्याद्यन्नानि सर्वाणि जायन्ते तत्र भूगुणात् ॥४७॥ 20 यन्निवासी जनः सवों वेलाफूलेषु भूरिषु । व्यवसाये कृतेऽल्पेऽपि निःसीमश्रियमश्नुते ॥४८॥ यत्र नागरखण्डानि नागवल्लीदलानि च। रजयन्ति मलिनास्यं मित्राणीव सदाऽङ्गिनाम् ॥४९॥ यत्र पाथेय-पानेय(नीय)वाहिनः केऽपि नाध्वगाः। 25 प्रपा-कूप-सरो-ग्रामसत्राकारादिषु स्थिताः ॥५०॥ यत्राविरलवृक्षालीतलसंचारिणः पथि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy