SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः। श्रेष्ठी हृष्टः कृतकृत्यो मुरूनूचे कृताञ्जलिः। कियदायुर्ममाद्यापि विद्यते चिन्त्यतां प्रभो ॥२६॥ विचिन्त्य सूरयः प्रोचुरायुर्मासत्रयावधि । विद्यते जिनदेव! त्वं तद्धर्मनिरतो भव ॥२७॥ 5 गुरुनभ्यर्थ्य स श्रेष्ठी तत्रैवास्थापयत् (१) ततः। अभवत् सोद्यमो धर्म मृत्यौ सामीप्यमीयुषि ॥२८॥ आकार्य समये सूरीन् तत्समक्षमनाशकम् (१) । आददे सर्व सत्त्वानां क्षामणं विदधे तथा ॥२९॥ संपाल्य निरतीचारमनाशकमयं दिवम् । 10 ययौ मृत्यूत्सवं सर्वं पुत्रोऽकारयदस्य तु ॥३०॥ नागेन्द्रोऽथ गृहैश्वर्य पालयन् कालयोगतः। पुत्रं प्राप्योपयाचितशतैर्मुदमुपागमत् ॥३१॥ निरीक्ष्यासौ तदङ्गेषु लक्षणश्रेणिमद्भुताम् । सल्लक्षण इत्यभिण्यां चक्रे पुत्रस्य सोत्सवम् ॥३२॥ 15 सदभ्यस्तः सकलासु स कलासु क्षणादभूत् । व्यवहारे तथाऽऽचारे गुणेषु निपुणोऽपि च ॥३३॥ पुत्रे न्यस्तभरः सोऽपि नागेन्द्रोऽथ निजं धनम् । कृत्वा कृतार्थ क्षेत्रेषु सप्तस्वपि दिवं ययौ ॥३४॥ अथ ताते दिवं याते साधुसल्लक्षणोऽभवत् । 20 स्ववेश्मविभवस्वामी चामीकरसमद्युतिः ॥३५॥ देवपूजाऽऽवश्यकादिधर्मकर्मसु बद्धधीः । गुरुभक्तिपरः कालं निनाय सुखितः सदा ॥३६॥ अथान्यदा गूर्जरत्रादेशात् कोऽपि समाययौ । ससार्थः सार्थपोऽगण्यपण्यमादाय य(त)त्पुरम् ॥३७॥ 25 निजापणसमासीनं स्वस्थं सार्थपति मुदा । कौतुकेन किंवदन्ती प्रष्टुं सल्लक्षणोऽवदत् ॥३८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy