SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ नाभिनन्दनोद्धारप्रबंधः। तथा मोहग्रहावेशविवशा गृहवासिनः। विडम्ब्यमानं स्वं तेन वराका नैव जानते ॥१३॥ तथाऽत्र नारी वारीव वशं नरगजं क्षणात् । कुरुतेऽतः समर्थोऽपि लभते न समीहितम् ॥१४॥ 5 अपत्यनिगडं दैवो वितीर्य पदयोर्मम ।। तथाऽकरोद् यथा मुक्तिर्दुर्लभा खलु मी(वी)क्ष्यते ॥१५॥ तदहं प्रत्यहं शृण्वन्नपि जैनवचा(चः)सुधा[म्] । निनाय यौवनं कामग्रहअहिलमानसः ॥१६॥ तारुण्यं निर्गतं देहं जरयोद्वरयाऽऽवृतम् । 10 तद्दीक्षायोग्यता नास्ति शक्तिहीनस्य मेऽधुना ॥१७॥ मदादेशवशः सूनुरात्तवेश्मभरोऽस्ति यत् । तद् व्ययित्वा धनं धर्मे श्रयेऽर्थं पारलौकिकम् ॥१८॥ तदाकार्य गुरुन् तेषां प्रत्यक्ष देववेश्मनि । अष्टाहिकाः कारयामि महोत्सवपुरस्सरम् ॥१९॥ 15 सार्मिकाणां वात्सल्यं सत्रागारमवारितम् । कारयामि यथोपात्तं वित्तं स्यात् सफलं मम ॥२०॥ विचिन्त्योति प्रगे पुत्रमाकार्यार्यनृणां वरः। आख्याति स्म सनिःशेषं रात्रिचिन्तितमात्मनः ॥२१॥ पुत्रः प्रीति(त)मनाः प्राह ततो निजभुजार्जितम् । 20 धर्मे धनं व्ययति चेत् तदन्यत् प्रार्थये किमु ॥२२॥ पुत्रः पितुः क्षणं(ऋण) दत्ते मृतस्यापि धनग्रहात् । स्वयं तातो व्ययति चेत् तद्गतर्णः सुतो भवेत् ॥२३॥ सुतोदितेन तेनाथ जिननाथपथि स्थितः। संजातद्विगुणोत्साहो जिनदेवोऽभवत् तदा ॥२४॥ 25 द्रुतमाकारयच्छ्रेष्ठी कक्कसूरिगुरूनथ । तथा व्यधाजिनदेवः सम्पूर्ण स्वमनोरथम् ॥२५॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy