SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः। पान्था न जातु सन्तापं लभन्ते तपनातपात् ॥५१॥ शत्रुक्षय-रैवतकमुख्यतीर्थानि यत्र च। भव्यैरुपास्यमानानि प्रापयन्ति परं पदम् ॥५२॥ सोमनाथो ब्रह्मस्थानं मूलस्थानं रविस्तथा । 5 यत्रेत्यादिकतीर्थानि विद्यन्ते लोकिकान्यपि ॥५३॥ यत्र कौ(कुसुम्भ-मा(मोजिष्टारक्तवस्त्राणि सर्वदा । विचित्राणि पट्टसूत्रव्युतान्याददते जनाः ॥५४॥ उपकारैः सदाचारैः प्रियालापैर्यदङ्गिनाम् । मुदितैर्विबुधैः प्रोचे यो विवेकबृहस्पतिः ॥५५॥ 10 विद्यन्ते ये क्षितौ देशा जायन्ते नास्य ते समाः। स्वों न दृष्टस्तत् तेन कथयामि कथं समः ॥५६॥ यस्य ग्रामा अपि पुरा(र)समा असमवैभवाः। ततः पुराणां संख्यानं कथयामि कथं तव ॥५७॥ अणहिल्लपुर-स्तम्भतीर्थमुख्यानि यत्र च । 15 पुराणि सन्त्यसंख्यानि स्वापुराभानि सत्तम! ॥५८॥ परं प्रल्हादनपुरं साम्प्रतं पुरमस्ति यत् । प्रल्हादनपुरतत्समानं किमपि चेत्स्वर्गे भवति वा न वा ॥५९॥ वर्णनम् । अपारधनसंसा(भा)रसमुपार्जनयोगतः। स्थलवेलाकूलमिति यत्पुरं गीयते जनैः ॥६॥ 20 प्रल्हादनविहाराख्यं श्रीवामेयजिनेशितुः। विद्यते मन्दिरं यत्र सुरमन्दिरसुन्दरम् ॥६॥ सदालानकमूर्धस्थसुवर्णकपिशीर्षकैः। आबद्धशेखरमिवाभाति देवगृहेषु यत् ॥६२॥ सौवर्णदण्डकलशा-मलसारककान्तिभिः । 25 प्रातलोका हतालोकं यदूर्व नेक्षितुं क्षमाः ॥६३॥ यत्रारात्रिकवेलायां निःस्वानध्वानव(त)र्जितः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy