________________
नाभिनन्दनोद्धारप्रबंधः । ..दिष्टं प्रभुणा यन्नौ वृत्तं वृत्तं पुरातनम् । तत् पुरःस्थमिवाध्यक्षं जातं जातिस्मृतेः समम् ॥३३६॥ तस्प्रसीद गृहस्थानामुचितं धर्ममादिश ।
न वयं दुष्करस्यास्य व्रतस्य करणे क्षमाः ॥३३७॥ 5 मुनिः सम्यक्त्वमूलानि द्वादशापि व्रतान्यथ ।
सम्यगुच्चारयामास दम्पती विनयान्वितौ ॥३३८॥ प्रपद्य तौ जैनधर्म वन्दित्वा मुनिपुङ्गवम् । पुरं विविशतुः स्वीयं मुनिरप्यन्यतो ययौ ॥३३९॥
प्रतिपाल्य विशुद्धं तौ गृहिधर्ममनाकुलौ। 10 पर्यन्तसमये प्रायोपवेशनमगृह्णताम् ॥३४०॥
निरतीचारमाराध्य स्वर्ग तो जग्मतुस्ततः। प्रच्युत्वा महाविदेहेषु मानवीभूय सेत्स्यतः ॥३४॥
[इति धनदेवदृष्टान्तः] तदेवं देव! यः कोऽपि धनदेव इवाङ्गिनाम् । 15 न करोति धधं मांसं न खादति स पुण्यनान् ॥३४२॥
आकण्यैवं जैत्रसिंहो भूपतिवेंसट जगौ। श्रेष्ठिन् ! शक्तः परित्यक्तुं न मांसमहमन्वहम् ॥३४३॥ न स्वयं देहिनां घातं करिष्यामि निरागसाम् ।
मासे मांसं पञ्चदश त्यक्ष्यामि दिवसान् पुनः ॥३४४॥ 20 श्रेष्ठी प्राह प्रभो! धन्यस्त्वमेव यदियत्यपि ।
श्रुते सजीववधं परितत्याज यः स्वयम् ॥३४५॥ तदेव सत्यवचसा भवता निजभाषितम् । परिपाल्यं यतो धर्मः सतां सत्यव्रतं(तः) सदा ॥३४६॥
जैत्रसिंहो जगौ श्रेष्ठिन्नुपरोधः किमत्र ते । 25 बुभुक्षितस्य किं नाम भोजनाभ्यर्थना भवेत् ॥३४७॥
भूपः प्रोचे पुरा मान्यस्त्वमभ्यागत इत्यभूः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org