________________
२६ नाभिनन्दनोद्धारप्रबंधः ।
क्षुधार्ता पतिता यत्र दृश्यन्ते द्रमकाः क्षितौ । दुवाताद् गलितानीव पापवृक्षफलान्यधः ॥३२३॥ यत्र प्रतिगृहं द्वारसंस्थिता द्रमकावलिः। विहितार्तस्वरा दीनाssख्यातीव निजदुष्कृतम् ।। 5 तस्मिन्नेवविधे जाते दुर्भिक्षे क्षयकारिणि ।
अनाभावे जनः प्रायो बहुसृत्युमुपागतः ॥३२५॥ योऽप्यस्ति सोऽप्यभून्मांसभक्षणाभिरतो जनः । विमुच्य कोऽपि तं ग्रामं क्रमशोऽगच्छदन्यतः ॥३२६॥
धनदेवः समायोऽपि सीदन्नन्नक्षयेन तु। 10 चचाल सह सार्थेन स(आ)सन्नविषयोपरि ॥३२७॥
सार्थलोकोऽपि मांसेन प्राणवृत्तिमकल्पयत् । गच्छतः स्म निराहारौ तावन्नाभावतः पथि ॥३२८॥ अथान्नालामतस्तौ तु पथि चंक्रमणाक्षमौ । मिथः पर्यालोचयतामिदं मृत्युभयातुरौ ॥३२९॥ 15 दूरेऽन्नबहुलो देशो द्वावन्यग्रे गमाक्षमौ ।
नियमः पालनीयश्च यावजीवमयं पुनः ॥३३०॥ तद् बलान्मृत्युरायातः स स्वयं यदि साध्यते । सकामनिर्जरायोगात् तदा स्यान्निर्मलो भवः ॥३३१
तौ विचिन्त्यति चक्रातेऽनशन शुद्धमानसौ। 20 विपद्य च स्वर्गलोकं प्रथमं समुपेयतुः ॥३३२॥
यधुवाभ्यां पूर्वभवे हिंसा-मांसनिवृत्तितः । नियमः पालितस्तेन सम्पन्ना सम्पदीदृशी ॥३३३॥ ततश्च्युत्वा भवान् विद्याधरो मेघरथोऽभवत् ।
यशोमती पुनरीयं जाता मदनमञ्जरी ॥३३४॥ 25 तदाकाथ तावीहापोहसंहतमानसौ।
संजातजातिस्मरणौ दम्पती मुनिमूचतुः ॥३३५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org