________________
नामिनन्दनोखारप्रबंधः । अद्यप्रभृति जीवानां विधास्यामि वधं न हि । खादिष्यामि न मांसं च नियमोऽस्तु सदा मम ॥३१॥ मुनिरण्याह न त्वत्तः पुण्यवानस्ति कश्चन ।।
यः समस्तं सदाऽभ्यस्तं पापं तत्याज तत्क्षणात् ॥३१॥ 5 तदेकचित्तः स्वोपात्तं नियम जीवितावधि । पालय तांति) भवेद्यस्मान्निश्चयफलदायिक (दायकः)॥३१२॥ स प्राह सुप्रभो! प्राप्त परित्यजति को निधिम् । गतं चक्षुरवाप्तं चेत् विक्षिपेत् कः शलाकया ॥३१३॥ नियम पालयिष्यामि प्रयतो जीवितावधि । 10 को हि कल्पद्रुमे लब्धे नादरं कुरुते सुधीः ॥३१४॥
प्रणिपत्य मुनेः पादौ भङ्क्त्वा चाप-शरादिकम् । मृगयोपस्करं सर्व जगाम गृहमात्मनः ॥३१५॥ दृष्ट्वा तमागतं कान्तं निर्मासं निर्धनु शरम् ।
प्रिया पप्रच्छ किं किंचित् त्वत्पाचे नाद्य वीक्ष्यते ॥३१६॥ 15 अथाचल्यौ स वृत्तान्तमखिलं दयिताग्रतः।
साप्याह कान्त ! धन्यस्त्वं यस्याभून्मुनिसंगमः ॥३१७॥ नियमो विदधे यच्च सोऽत्यन्तं मेऽपि संमतः। तदमुं पालयिष्यामो मिलित्वा द्वावपि प्रिय ! ॥३१॥
ततस्तयोः पालयतार्नियमं मुदितात्मनोः । 20 कालः कियान् व्यतीयाय शुद्धद्रव्यार्जनाजुषोः ॥३१९॥
दुर्भिक्षमापत रक्ष इव लोकक्षयंकरम् । कदाचन जनो यत्र न कोऽपि सुखितोऽभवत् ॥३२०॥ जनन्योऽपि निजं पुत्रं यत्रास्तसु(प्रात्तमु)पयाचितैः।
वञ्चयित्वा रहः स्थित्वा कदन्नमपि भुजते ॥३२१॥ 25 जनका अपि यत्र स्वं मूल्यमादाय नन्दनम् ।
विक्रीणन्ति तृणमिव संत्यक्तप्रीतिरितयः ॥३२२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org