________________
२४ नाभिनन्दनोवारप्रबंधः । साधवः सापराधेऽपि न कुर्वन्ति कुछ क्वचित् । कः कोपस्यावकाशो हि त्वयि भद्र! निरागसि ॥२९७॥ अपराधं विधायापि यो जन्तुः परितप्यते । सोऽपि कोपपदं न स्यान्निर्मन्तुः किं पुनर्भवान् ॥२९८॥ तद् विमुच्य भयं भद्र ! स्वस्थीभूय मयोदितम् । 5 आकर्णय यतो दुःखी न भवेस्त्वं भवान्तरे ॥२९९॥
यथा महाभयं भद्र ! विद्यते मृत्युतस्तव । परेषामपि जानीहि ताडगेव तथाऽङ्गिनाम् ॥३००॥ उच्यमानो नियस्वेति जायते दु:खितो यदि ।
जन्तुस्तनिशितैः शखैहन्यमानः कथं भवेत् ॥३०१॥ 10 कुष्ठी कुष्ठामिभूतोऽपि न मर्तुमभिवाञ्छति ।
किं पुनर्यः सुखी तस्मान्मृत्युभीरुभयोः समा ॥३०२॥ तथा विद्युश्चले भोगसंयोगे जीविते पुनः । गजकर्णचले युक्ता न पापाभिरतिर्नृणाम् ॥३०॥
नान्यजीववधात् पापस्त(पमूलं किञ्चन विद्यते । 15 प्रभवन्ति यतो दुःखलक्षाण्याशु भवान्तरे ॥३०४।।
पापं स्त्री-पुत्र-पत्नीनां कृते येषां करोति ना। ते रक्षन्ति न तं यान्तं नरके विवशं पुनः ॥३०५।। तथाऽन्ये स्वजना दूरे सन्तु योऽस्ति सुपोषितः ।
देहो विघटते सोऽपि कुभृत्य इव संगरे ॥३०॥ 2) तत् कुरुष्व मतिं धर्मे शर्मकारिण शाश्वते ।
न भवन्ति यतो दुःखान्यैहिकामुष्मिकान्यपि ॥३०७॥ तं पीयूषोपमं सोऽपि पीत्वा मुनिमुखोद्गतम् । उपदेशरसं सद्यो मिथ्यात्वा(त्व)गरमत्यजत् ॥३०८॥
धनदेवोऽपि मुनिपादौ नत्वा व्यज्ञपयत् प्रभो!। 25 भवान्धकूपे पततो मा हस्तोऽवलम्बितः ॥३०९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org