SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ नाभिनन्दनोद्धारप्रबंधः । स कुसंसर्गतो जातपापर्द्धिव्यसनः सदा । मांसलुब्धो लुब्धकेषु मिलितो हन्ति देहिनः ॥ २८४ ॥ अभ्यदाऽवाप पापद्धिं विधातुं स वनान्तरम् । नश्यतो हन्तुमारेभे प्राणिनो नेत्रगोचरान् ॥ २८५॥ धावतोऽनुदधावेऽथ चलतोऽन्वचलच सः । 5 स्वहतान् क्रन्दतः सत्त्वान् वीक्ष्याधिकमुदं दधौ ॥ २८६ ॥ मृगमेकमनु त्रस्तं धावन्नथ शरासने । शरं संयोज्य चिक्षेप तं हन्तुं निष्कृपाशयः ॥२८७॥ कुरङ्गोऽथ लतागुल्मं प्रविश्य परतो गतः । स हतो न हतो वेति वीक्षितुं पृष्ठतोऽगमत् ॥ २८८ ॥ 10 प्रविवेश लतागुल्मे यावत् तावत् पुरः स्थितम् । मुनिमेकमपश्यच्च तत्पुरः पतितं शरम् ॥ २८९ ॥ धनदेवस्ततो भीतः पतित्वा मुनिपादयोः । आह स्तोकेन न विभो ! लिप्तोऽहं त (त्व) द्वधैनसा ॥ २९० ॥ तत्प्रसीद न विज्ञातस्तिष्ठन्निह भवान् प्रभो ! । 15 क्षिप्तः शरो मृगं हन्तुं पृष्ठतो धावता मया ॥ २९९॥ ध्यानविन्यस्तचि तेऽस्मिन् न ददत्युत्तरं मुनौ । धनदेवोऽतिभीमग्नो लग्नोऽस्य पादयोः पुनः ||२९२ || भगवन् ! भवतां लोकोत्तरतेजस्विनां पुरः | देवा अपि तृणमात्रं किं पुनर्माडशो जनः ||२९३ ।। 20 न भ्राता न पिता पुत्रो न स्वामी कोsपि विद्यते । अटव्योतोः श्रुतिच्छेदस्तदयं मारणे मम ॥२९४॥ तद् विमुञ्च मयि क्रोधं रोधं दस्से यदङ्गिनाम् । तत् प्रसद्य पृष्ठहस्तं यच्छ स्वच्छमना भव ॥ २९५ ॥ पारयित्वा मुनिर्ध्यानं धनदेवमुवाच तर । 25 भो ! प्रकृत्या जितक्रोधयोधाः स्युः साधवः सदा ||२९६ ॥ Jain Education International For Private & Personal Use Only २३ www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy