SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ माभिनन्दनोद्धारप्रबंधः । चुलकादिभिराण्यानैर्दुर्लभो मानुषो भवः ॥२७॥ मानुषोऽपि(षेऽपि)रसा-स्थि-त्वम्-मेदो-मजा-स्त्र-पसा(साम्) पात्रं गानं कृतघ्नं च स्यादसारमशाश्वतम् ॥२७२॥ पयला पोषितादस्माद् देहाद् रम्भातरोरिष । 5 सारमेकमुपादेयं तद्धर्मासेवनं फलम् ॥२७॥ धर्मादेव यतः सर्वे संपद्यन्ते समीहिताः । अर्था इह मनुष्याणामैहिकाः पारलोकिकाः ॥२७४॥ स्वर्वधूकृतसङ्गीतप्रीतचित्ताः सदा सुराः। चिन्तासम्पन्नकार्याश्च जायन्ते धर्मतो ध्रुवम् ॥२७॥ 10 षट्खण्डभरतक्षेत्रनाथा नव निधीश्वराः। धर्मादेव प्रजायन्ते सर्वेऽमी चक्रवर्तिनः ॥२७६॥ चतुस्त्रिश[द]तिशयभ्राजिनोऽमी जिना अपि । भवन्ति धर्मतो नूनं त्रिजगजनपूजिताः ॥२७७॥ तथाऽन्यदपि सौभाग्य-रूप-वीर्यादिकं च यत् । 15 चित्ताइलादकर विश्व विद्यते धर्मतो हि तत् ॥२७८॥ अनन्तं शाश्वतं यच्चानाबाधमतुलं सुखम् । सिद्धिसंबन्धि तजीवो धर्मादेव समाप्नुयात् ॥२७९॥ विज्ञाय तमिमं धर्मप्रभावं भावसंयुताः। धर्म एव सदा पूयं भव्या भवन्तु सादाः ॥२८०.! 20 धर्मानुभावमाकर्ण्य नत्वा हेमरथो गुरुम् । अवादीद् भगवन् ! पूर्व किं मया सुकृतं कृतम् ॥२८॥ गुरुराह महाबाहो! श्रृणु पूर्वभवं निजम् । यं विबुध्य विशुद्धात्मा भविष्यति भवानपि ॥२८२॥ कूर्मग्रामेऽभवद् भद्रप्रकृतिः कुलपुत्रका।.. राज्ञः पूर्वमवीयधनदेवकथा । 25 धनदेवाभिधस्तस्य वल्लभाऽस्ति यशोमती ॥२८३॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy