SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ नाभिनन्दनोद्धारप्रबंधः । स्वसौधे मिलनायास्या जनन्या हर्षहेतवे ॥ २५८ ॥ रसवत्या सुरसया तद्विज्ञैः कृतयाऽऽदरात् । भोजयामास तं राजा खेचरं सपरिच्छदम् ॥२५९॥ स. भोज्यैर्विविधैर्वस्त्रैर्भूषणैश्चापि भूपतिः । 5 संमदात् सपरीवारं जामातरमपू पुजत् ॥ २६०॥ निवेश्य तनयामङ्के दिव्य वस्त्र विभूषणैः । अमानयन्माननीयां प्रियालापैश्च सुन्दरैः ॥२६२॥ अथो हेमरथो भूपमनुज्ञाप्य प्रियायुतः । आरुह्य सपरीवारो विमानानि खमुद्ययैौ ॥२६२॥ 10 क्षणेन स्वपुरं प्राप्य विवेश समहोत्सवम् । विद्याधराधिपत्यं स चिरकालमपालयत् ॥ २६३ ॥ अथान्यदोद्यानपालो भूमिपालं व्यजिज्ञपत् । देवाद्य सुव्रताचाय बहिरस्ति समागतः ॥ २६४॥ ज्ञानेन सातिशयेन तत्रस्थसर्वदेहिनाम् । 15 छिन्दानः संशयानस्ति सोऽतीतानागतानपि ॥ २६५॥ तदागमश्रुतेरब्दगर्जि (जै) रिव महीपतिः । शिखण्डीव मुदापूर्णस्तूर्णमासीत् सुपत्रयुक् ॥ २६६॥ स्कन्धावारैरपारैः स वेष्टितः शिष्टचेष्टितः । वन्दनाय समादाय प्रियां सह ययौ नृपः ॥ २६७॥ 20 विमुच्य चामर-च्छत्र-मुकुटो - पानहादिकम् । राजचिह्न महीपालः सूरीणां पुरतोऽगमत् ॥ २६८ ॥ वन्दनं द्वादशावर्त भवावर्तविमुक्तये । स ददौ परया भक्त्या साधूनन्यान् ननाम च ॥२६९॥ सूरयोऽथ निषण्णायां राजप्रमुखपर्षदि । 25 कर्तुमारेभिरेऽधर्मनाशिनीं धर्मदेशनाम् ॥२७०॥ भो ! भो ! अपारसंसार सङ्गिनामङ्गिनामयम | Jain Education International २१ For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy