________________
नाभिनन्दनोद्धारप्रबंधः । कण्डलग्ना तदाऽऽधत्ते गतप्राणं नरं क्षणात् ॥२४५॥ ममेयं तनया जशे निश्चितं कुलपांशुना(ला)। परिणीतं वरं मुक्त्वा याऽन्यमेतं समाश्रिता ॥२४६॥ इति चिन्तावशापन्नविषादमनसं नृपम् ।। 5 वीक्ष्य विद्याधरः प्राह संशयं कुरु मा मुथा ॥२४७॥
सोऽहं कुष्ठी वरो योऽस्याः कोपतः परिणायितः । सेयं तव सुता सत्या संजाता भाग्यसम्पदा ॥२४८॥ सर्वत्र भोगिनां भोगा इति पूर्वसुभाषितम् ।
परीक्षयि(रीक्षि)तुमियं माया प्रयुक्ताऽऽसीन्मया नृप ॥२४९॥ 10 तदस्या लाभतो भूप! सत्यीभूतमिदं वचः ।
तदेतदुक्तं मन्यस्व वचनं सुप्रतिष्ठितम् ॥२५०॥ एवमुक्त खेचरेण स नरेश्वरखेचरः । उल्लसत्पुलको हर्षादूचे मदनमञ्जरीम् ॥२५१॥
तनये ! विनये सुशे विधेहि निजमानसम् । 15 सानुकम्पं सप्रसादमप्रसादकरे मयि ॥२५२॥
सोचे शुचिसमाचारा किमिदं पितरुच्यते । ददता वरमीदृशं प्रसादोऽयं कृतस्त्वया ॥२५॥ उपकारशतैर्यस्यापत्यं जायेत नानृणम् ।
तातस्योपरि कस्तस्य विदधाति सुधीः क्रुधम् ॥२५४॥ 20 हृष्टः प्राह नृपः पुत्रि ! कुलीनाऽसि वदस्यतः ।
प्रियमेव कटुः किं स्याञ्चूर्णिताऽपि हि शर्करा ॥२५५॥ तनयेऽस्मि कृतनानां कुलीनानां भवत्यपि । लेभे रेखामाशशाङ्कलहस्रकिरणोदयम् ॥२५६॥
ततो हेमरथो विद्याधरो धृत्वा नृपं करे । 25 सम्बोध्य तौ पूर्वमिव मिथः प्रीतिमवर्धयत् ॥२५७॥
अभ्यर्थ्य भूपतिर्जामातरं सत्वरमानयत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org