________________
२८ नाभिनन्दनोद्धारप्रबंधः । धर्मोपदेशाधुना जातः पूज्यतमो मम ॥३४८॥ तत्र तिष्ठ महत्तावासे पौरशिरोमणिः । कृतो मया पुनर्नित्यमागच्छरस्मदन्तिकम् ॥३४९॥ संघस्य रथयात्रायामादेशं वेत्रिणा ददौ । 5 सर्वत्र नगरेऽमारिघोषणां चाप्यकारयत् ॥३५०॥ वेसटाय वरावासादेश मन्त्रिपुरो ददौ । स गत्वा श्रेष्ठिना साधैं नृपादेशं तथाऽकरोत् ॥३५१॥ बहिस्तः स समादाय श्रेष्ठ्यपि स्वकुटुम्बकम् ।
तस्थौ तस्मिन् भूपदत्तावासे वासववेश्मभे ॥३५२॥ 10 यातायातैः प्रियालापैः श्रेष्ठिनोऽस्य च भूपतेः। निचिता प्रीतिरुत्पेदे बल-केशवयोरिव ॥३५३॥ राजप्रसादमप्याप्य परुषं न वचोऽवदत् । चन्द्रकान्तो न पीयूषं विमुच्य परिवर्षति ॥३५४॥
मन्यमानः स भूपेन लोकोपकृतिमातनोत् । 15 विन्यस्तः सर(शिर)सीशेन सदोपकुरुते शशी ॥३५५॥
कुर्वन् सदा सकलपौरशिरोमणित्वं
दानेन निर्जरतरोः समतां दधानः । संपूरयन् निजयशोलसितैः स विश्वं
तद् वेसटः पुरवर चिरमध्युवास ॥३५६॥ 2) इति श्रीशत्रुजयमहातीर्थोद्धारप्रबन्धे प्रथमः प्रस्तावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org