________________
नाभिनन्दनोद्धारप्रबंधः ।
कुलस्त्रियोsपि यद्यन्यं करिष्यन्ति पतिं पुनः । तासां पण्याङ्गनानां च भविष्यति किमन्तरम् ॥२०७॥ तत् त्वमेव तातदत्तः पतिर्मे जीवितावधि । यतो राज्ञां सतां चोक्तं कन्यादानं सकृद्भवेत् ॥२०८॥ 5 कुष्ठी हृष्टमनाः प्राह सत्यमेव त्वयोदितम् । सादृश्ये किन्तु दम्पत्योः सङ्गतं स्यादिदं वचः ॥ २०९ ॥ "गते मृते प्रव्रजिते क्लीबे च पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥२१०॥ इति पूर्वकविप्रोक्तप्रामाण्यादपरं पतिम् । 10 कुर्वतीनमे (नाम) पि स्त्रीणां न स्यादण्यपि दूषणम् ॥२११॥ गलत्कुष्ठाभिभूतोऽहं जीविष्यामि दिनत्रयम् । अलक्षितैव तद्गच्छ रात्रावेव यथारुचि ॥ २१२ ॥ लगित्वा पादयोः साऽपि जगदे गङ्गदस्वरम् । न वाच्यमीदृशं वाक्यं हास्येनापि पुनः प्रिय ! ॥२९३॥ 15 खं देवस्त्वं गुरुरुवं च नाथवं जीवितं तथा । मनो-वचन-कायैस्त्वदन्यो नैव धवो मम ॥ २१४॥ एवं तनिश्वर्यं ज्ञात्वा खेचरो मुदिताशयः । निजरूपचिकीर्विद्यां स्मृतवान् रूपकारिणीम् ॥ २१५ ॥ यथाsपटलात्पूषा भूमिकाया नटो यथा ।
20 कुष्ठित्वान्निर्गतो जज्ञे तथा सोऽपि स्वरूपभाक् ॥२१६॥ संचलत्कुण्डलः स्वर्ण - मणि- मौक्तिकभूषणः । अमर्त्य व शर्वर्यामपि विद्योतमादधे ॥ २१७॥ तमुदीक्ष्य यथाऽवस्थं विस्मयेन भयेन च । संकीर्णरसमापना प्रोचे विद्याधरेण सा ॥२१८॥ 25 कान्ते ! मा स्म मनोऽकान्तं कार्षीरस्मि तव प्रियः । स एव खेचरीभूतो मन्यस्वेदमसंशयम् ॥ २१९॥n
Jain Education International
For Private & Personal Use Only
१७
www.jainelibrary.org