________________
नाभिनन्दनोछारप्रबंधः। खेचरोऽयं हेमरथो भोगाः सर्वत्र भोगिनाम् । इत्यर्थे संशयं कुर्वन् कुष्ठी भूत्वा समागमम् ॥२२०॥ सा सानन्दाऽभवत् कान्तं कान्तरूपं निरीक्ष्य तम् । कुमुद्वतीव कौमुद्या शशिनं शुद्धदीधितिम् ॥२२१॥ 5 समग्रं सपरीवारं स प्रशप्तिविधया । चीनमाकारयामास तत्क्षणादाययौ च सः ॥२२२॥ सर्वरत्नमयस्तम्भसहनस्थिरसंस्थितम् । चश्वरपश्चालिकारुपवीक्षाऽऽक्षिप्तमनोजनम् ॥२२३॥
यद् दूरादागतमिव विश्रामार्थमिह स्थितम् । 10 पपौ गवार्विततैर्वायु व्यारिवाननैः ॥२२४॥
उघद्रस्नप्रभावीचिव्याप्तभूजलधौ स्थितम् । सपताकं यानमिवार(रो)चयत् क्लुप्तनागरम् ॥२२५॥ यस्योपरि रत्नमया शुशुभे कलशावलिः ।
सूर्यालीवागमद् द्रष्टुं विधातुं स्वौक ईरशम् ॥२२६॥ 15 तमी(दी)शं स्वर्विमानसमान सप्तभूमिकम् । भुवनं विद्यया विद्याधरो विद्याकरोऽकरोत् ॥२२७॥
[पञ्चभिः कुलकम् ] तथाऽवरोधसौधानि शालाश्च गजवाजिनाम् ।
सभामण्डप-हट्टानि सर्वमित्यादि स व्यधात् ॥२२८॥ 20 ततः प्रातर्बहिः पौरा गता वीस्य तदीरशम् । किमिदं नगरं त(क)स्मादागतं ते व्यचिन्तयन् ॥२२९।। व्यजिज्ञपन्नमी राशे सोऽपि भीतोऽथ बन्दिनः । प्रजिघाय परिक्षातुं तमाकस्मिकमागतम् ॥२३०॥
ज्ञात्वा तेऽपि समेस्याशु कथयन्ति स्म भूपतेः । 25 विद्याधरो हेमरथो द्रष्टुं स्वामस्त्युपागतः ॥२३१॥
ततः समग्रसामथ्या मिलनायास्य पार्थिवः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org