SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ माभिनन्दनोद्धारप्रबंधः । किंविद्विनमद्यापि विद्यते नैव नन्दिनि ! | अर्वागग्निचमचतुष्टयादन्यो वरो भवेत् ॥ १९४॥ अम्बामूचे सुता मातर्मा विषीद मुदं कुरु । यत्सुता स्यादात्मपुण्या पितृपुण्या कदापि न ॥ १९५ ॥ 5 मातस्तातस्य दोषोऽयं न कोऽप्यत्र हि विद्यते । मम पूर्वभवोपात्तकर्मविस्फूर्जितं त्विदम् ॥१९६॥ भुञ्जानः स्वार्जितं सर्वो धत्ते मुदमनुत्तरम् । परेणोपार्जितं कोऽपि संप्राप्नोति न बह्वपि ॥ १९७॥ नृपोऽप्येकाग्रहां पुत्रीं तेन तां पर्यणाययत् । 10 साsपि तं दैवतमिव निजं पतिममन्यत ॥ १९८ ॥ इडात्तन्मातरं राजा तत्स्थानान्निरवा[स] यत् । तनयां कुष्ठीनं चापि प्रेषीत्पुर बहिर्नरैः ॥ १९९ ॥ विलुठन् निःश्वसन् कुष्ठी तत्रातिष्ठत् स कष्टितः । शुश्रूषमाणा साप्यस्य पादौ पत्युः पतिव्रता || २००|| 15 स तदाकूतकुतुकी निःश्वस्य स्खलिताक्षरम् । १६ मन्दस्वरं निजगाद निशीथे नृपनन्दिनीम् ॥ २०९ ॥ निर्भाग्यस्य कुष्ठिनो मे सुभगे ! भाग्यशालिनि । संवाहयसि किं पादौ न किं श्रुतमिदं त्वया ॥ यत उक्तम्" राजदण्डो ज्वरः कुष्ठपीनसं नयनामयम् । 20 पञ्चैते व्याधयो राजन् ! संक्रामन्ति नरान्नरम्" ॥२०३॥ रूपं जितोर्वशीरूपं तव मत्सङ्गदोषतः । क्षीरत्काञ्जिकात्सद्यो विनश्यति हहा मुधा ॥ २०४ ॥ किञ्चिद्विनष्टमद्यापि विद्यते न हि सुन्दरि ! | तन्मातुलगृहं गच्छ किं वाऽन्यं कुरु वल्लभम् ॥२०५॥ 25 राजवुत्री पतिं प्रोचे मा मा वोचः प्रियेदृशम् । पितृदत्तः कुलस्त्रीणामेक एव यतः पतिः ॥ २०६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy