________________
नाभिनन्दनोद्धारप्रबंधः ।
यः समुतबिम्बस्य प्रतिष्ठां निर्ममे गुरुः । उद्धारं कारयांच यश्चासौ श्रावको यथा ॥ १२ ॥ तथैतयोः पुण्यवतोः प्रतिष्ठो - द्वारकारिणोः । चरितं कीर्तयिष्यामि कालोः (कलौ) कृतवतोः कृतम् ॥१३॥ 5 पतचरितमाख्यातुं वागीशोऽपि नहीश्वरः । माशस्य तु का शक्तिः तच्चरित्रस्य कीर्तने ॥१४॥ तथाऽपि कथयिष्यामि स्वशक्त्या मन्दधीरपि । अजानन्नपि हर्षेण मयूरः किं न नृत्यति ॥१५॥ पङ्गुः :: शीघ्रगमाशक्तौ मन्दं मन्दं न याति किम् । 10 कुब्जश्च तरौ रभसान्न निक्षिपति किं करम् ॥ १६॥ भतो मया यथादृष्टुं (ष्टं) कलिकालेऽपि पापहृत् । एतद् वृत्तं कीर्त्यमानं भव्याः शृणुत सादराः ||१७|| अस्ति स्वस्तिचव्व (कव) भूमेर्मरुदेशस्य भूषणम् । उपकेशपुरनिसर्गसर्गसुभगमुपकेशपुरं वरम् ॥१८॥
वर्णनम् ।
15 सागा यत्र सदारामा अदारा मुनिसत्तमाः । विद्यन्ते न पुनः कोऽपि ताडं पौरेषु दृश्यते ॥ १९ ॥ यत्र रामागर्ति हंसा रामा वीक्य च तद्गतिम् । विनोपदेशमन्योन्यं तां कुर्वन्ति सुशिक्षिताम् ||२०|| सरसीषु सरोजानि विकचानि सदाऽभवन् । 20 यत्र दीप्रमणिज्योतिर्ध्वस्तरात्रितमस्त्वतः ॥२१॥ निशासु गतभर्तृणां गृहजालेषु सुभ्रुवाम् । प्राप्ताश्चन्द्रकराः कामक्षिप्ता रूप्या शरा इव ॥२२॥ यत्रास्ते वीरनिर्वाणात्सप्तत्या वत्सरैर्गतैः । श्रीमद्रत्नप्रभाचार्यैः स्थापितं वीरमन्दिरम् ||२३|| वीरमन्दिरम् 25 तदादिनिश्वलासीनो यत्राख्याति जिनेश्वरः । श्रीरत्नप्रभसूरीणां प्रतिद्वातिशयं जने ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org