SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ नाभिनन्दनोद्धारप्रबंधः । यत्र कृष्णागरूयूतधूमश्यामलितत्विषा । सदैव ध्रियते तस्मान्नभसा श्यामलं वपुः ॥२५॥ मृदङ्गध्वनिमाकर्ण्य मेघगर्जितविभ्रमात् । मयूरा कुर्वते नृत्यं यत्र प्रेक्षणकक्षणे ॥२६॥ 5 प्रतिवर्ष पुरस्यान्तर्यत्र वणमयो रथः। पौराणां पापमुच्छेत्तुमिव भ्रमति सर्वतः ॥२७॥ यत्रास्ते विदग्धा नाम वापी वा(चा)पीनविधमा । निसाऽधोऽधोगामिनीभिर्याऽसौ सोपानपङ्क्तिभिः ॥२८॥ यस्यां यैः कौतुकी लोकः कृतकुङ्कमहस्तकैः । 10 सोपानर्यात्यधोभागं न निर्याति स तैः पुनः ॥२९॥ तत्पुरप्रभवो वंश ऊकेशाभिध उन्नतः । ऊकेशवंशवर्णनम् । सुपर्वा सरलः किन्तु नान्तःशून्योऽस्ति यः क्वचित् ॥३०॥ तत्राष्टादश गोत्राणि पत्राणीव समन्ततः । विभान्ति तेषु विख्यातं श्रेष्ठिगोत्रं पृथुस्थिति ॥३१॥ 15 तत्र गोत्रेऽभवद् भूरिभाग्यसम्पन्नवैभवः । वेसटस्य वर्णनम् । श्रेष्ठी वेसट इत्याख्याविख्यातः क्षितिमण्डले ॥३२॥ यहत्तधनसन्तानैर्निचितेष्वर्थिवेश्मसु । तत्रामादिव दारिग्यं त्वरितं दूरतोऽव्रजत् ॥३३॥ कीर्त्या यस्य प्रसर्पन्त्या शुभ्रया भुवने विधुम् । 20 विनाऽपि कौमुदोल्लासः समजायत शाश्वतः ॥३४॥ यस्यां सोमोऽपि सोमोऽपि न साम्यं समुपेयिवान् । ऐश्वर्येणानुत्तरेण सौम्यत्वेन नवेन च ॥३५॥ ऋया समृद्धया येन धनदेवेन(नेव) व(शी)लितम् । लेभे नतु कुबेरत्वं न पिशाचकिताऽपि च ॥३६॥ 25 कोऽप्यपूर्वस्तगणानां स्वभावः प्रभवत्ययम् । मनोऽन्यगुणसम्बई मोचयन्त्यपि पीक्षिताः ॥३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy