________________
ॐ नमः सर्वज्ञाय । श्रीगुरुभ्यो नमः । महाकविश्रीधनपालविरचिता ॥ ऋषभपञ्चाशिका |
श्रीप्रभानन्दसूरिकृतवृत्ति-श्रीहेमचन्द्रगणिकृतविवरणसमलङ्कृता ।
जयजंतुकप्पपायव !, चंदायव ! रागपंकयवणस्स । सयलमुणिगामगामणि! तिलोअचूडामणि! नमो ते ॥ १ ॥ - आर्या
[ जगज्जन्तुकल्पपादप ! चन्द्रातप ! रागपङ्कजवनस्य । सकलमुनिग्रामग्रामणी -स्त्रिलोकचूडामणे ! नमस्ते ॥ ] श्रीप्रभानन्दाचार्यविरचिता 'ललितोक्ति' नाम्नी वृत्ति:
जयति । हे त्रिजगचूडामणे ! - जगत्रयललाम ! भगवन् ! तुभ्यं नमोऽस्तु - त्रिकरण - शुद्ध्यात्वां प्रति प्रणतोऽस्मि । तत्राद्यपदं जगति - भारतावनौ जन्तवो-मनुष्या जगज्जन्तवः तेषां कल्पपादप व कल्पपादपः । युगलधर्मविच्छेदकल्पमही रुहसमुच्छेदे तेषां भगवानेव परमकारुणिकः शिल्पाद्युपदेशेन समस्तव्यापारेण कल्पद्रुमकार्यं निर्वर्तितवान् । एवंविधाय तुभ्यं नमोऽस्तु । तत्र राग एव पङ्कजवनं - सूर्यविकाशिकमलवनं रागपङ्कजवनं तस्य चन्द्रातप इव-चन्द्रज्योत्स्नेव चन्द्रातपस्तस्य सम्बोधनम् । यथा भास्करकरव्यतिकरविकस्वरमपि कमलवनं चन्द्रातपेन सम्मील्यते, तथाऽनेकभवोपलाभतापरिचयप्रचीयमानं तद्विकारमपि रागं भगवानेव हेलयैव सङ्कोचितवान् । तत्र ( था ) सह कलाभिवैक्रियादि(भिः) वा लब्ध्यादिभिर्वर्तन्ते इति सकलाः, ते च ते मुनयस्तेषां सकलमुनीनां ग्रामः - स. मूहः सकलमुनिग्रामः, तत्र भगवान् ग्रामणीः - प्रधानतमः । प्रधानत्वं च अन्योऽपि यः किल ग्रामणीर्भवति स ग्रामस्य नेता । भगवानपि मुनिग्रामस्य तद्वदिति । त्रिलोकचूडामणिः । त्र्यवयवो लोकस्त्रिलोकः स्वर्गमर्त्यपाताललक्षणः त्रिलोकः, तस्य चूडा - सिद्धिक्षेत्रं, तत्र शाश्वतमण्डनत्वात् मणिरिव मणिः, तस्य सम्बोधनम् । साम्राज्यसंयमच्छद्मस्थावस्था कथिता । केवली श्रीसङ्घसमवसरणस्थाऽवस्था स्थापिता श्रीवृषभजिनपतेः ॥ इति प्रथमगाथार्थः ॥ १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org