________________
विरचिता] ऋषभपञ्चाशिका.
૧૬૭ यतस्ते युगलधर्माणः कल्पद्रुममात्रवृत्तयश्च । कल्पद्रुमाश्च तदानीमुच्छेदोन्मुखाः, अतस्तेषां भगवानेव तथाविधशिल्पाद्युपदेशेन कल्पद्रुमकार्य निर्वर्तितवानिति समीचीनं हे जगज्जन्तुकल्पपादप! । यथा जगदानन्दहेतुरपि चन्द्रातपः पङ्कजवनं निमीलयति, तथा विश्वजनीनोऽपि तत्तदुःखविवशं जगज्जन्तुजातं अनन्तसुखसम्बन्धबन्धुरत्वेन योजयंस्तत्प्रतिबन्धहेतौ वैरङ्गिकत्वं विहितवान् । सह कलाभिर्वर्तन्ते इति सकलाः, ते च ते मुनयश्च तेषां ग्रामः-समूहः, तत्र ग्रामणी:-प्रधानतमः । सकलशब्दः सर्ववाच्यत्र न, ग्रामशब्देन पौनरुक्त्यभावात् । त्रिलोकस्य चूडा-सिद्धिक्षेत्रम् , तत्र शाश्वतमण्डनहेतुत्वात् मणिरिव मणिस्तस्यामन्त्रणम् ॥ ___ अत्र च 'जयजं०' अनेन साम्राज्यावस्था सूचिता, 'चन्दायः' इत्यनेन छद्मस्थावस्था, 'सयल०' इत्यनेन उत्पन्नकेवलस्य समवसरणस्थावस्था, 'तिलोअ०' इत्यनेन मोक्षस्थावस्था सूचिता ॥ १॥
ध० अ०-हे नाथ! त्वं जय । हे स्वामी ! तूं सर्वोत्कर्षी जयवंतु वर्ति । कथम्भूतस्त्वम् ? रोषज्वलनजलधर! रोष-क्रोधरूपीया ज्वलन-वैश्वानर रहई जलधर-मेघ समान छई। पुनः कथम्भूतस्त्वम् ? वरज्ञानदर्शनश्रीणां कुलगृह ! वर-प्रधान ज्ञान दर्शन श्री-लक्ष्मी तणउं कुलगृह छ । पुनः कथम्भूतस्त्वम् ? मोहतिमिरौघदिनकर ! मोहरूपीयां तिमिर-अंधकार रहई दिनकर-सूर्य समान छई । पुनः कथम्भूतस्त्वम् ? प्रचुराणां गुणगणानां नगर! प्रचुर-घणा गुण-चारित्रतपोरूप गुण-समूहनूं नगरु छं ॥२॥
ने० अ०-साम्प्रतं स्तुतिमाह-जय रो० । जय त्वं भगवन् ! सर्वोत्कर्षेण वर्तस्व । रोपज्वलनजलधरः-क्रोधाग्निपयोदस्तत्सम्बोधनम् । हे कुलगृह !-विशिष्टसमन् ! । कासाम् ? वरज्ञानदर्शनयोः समृद्धीनाम् । मोहतिमिरौघदिनकर !-अज्ञानान्धकारसमूहतरणे! । तथा हे नगर!पत्तनकल्प ! । केषाम् ? गुणगणाः-चारित्र-तपोरूपास्तेषां पौराणामिव-विशिष्टलोकानामिव । प्रचुराणां-प्रभूतानामिति ॥ २॥
चि० अ०-जय रोस० । जय त्वं भगवन् !-सर्वोत्कर्षेण वर्तस्व । हे रोषज्वलनजलधर! । कुलगृह !-विशिष्टगृह ! । कयोः ? वरज्ञानदर्शनश्रियोः । प्राकृतत्वात् द्विवचने बहुवचनम् । अयमाशयः-यथा बालाजनः पितुर्वेश्मनि निःशकं तत्क्रीडारससम्पादके निवसन् परां निर्वृतिमागच्छति, तथा ज्ञानदर्शनश्रियावपि भगवन्तमधिगम्य विलसतः। हे मोहतिमिरौघदिनकर !। नयर!नगर! । केषाम् ? गुणानां-प्रशमादीनां तेषां गणाः-समूहाः त एव पुरे भवाः पौराः । यथा कस्मिंश्चित् राजन्वति नगरे नागरिकैरकुतोभयैः सुखमवस्थीयते, एवं भगवति निःशेषदोषसंश्लेषविमुखे समग्राभिरामगुणग्रामैः । यद्वा प्रचुराणां-प्रभूतानामेवेति ॥ २ ॥
पू० अ०-हे रोषज्वलनजलधर! त्वं जयेति सम्बन्धः । वरे-अप्रतिपातिनी ज्ञानदर्शने तयोः श्रियोः कुलगृह!- पितृगृह ! । यथा बाल(ला)जनः पितृगृहे निःशङ्क विलसति, तथा भगवति ज्ञानदर्शनश्रियौ । तत्राशेषविशेषविषयं ज्ञानं, सामान्यवस्तुगोचरं दर्शनम् । ननु सर्वस्यापि विलोकयितुः पदार्थेषु प्रथमाक्षसन्निपाते सामान्यबुद्धिरुत्पद्यते, ततो विशेषबुद्धिः, तत् कथं प्रथममत्र ज्ञानमुपात्तम् ? । उच्यते-अस्त्येवेयं व्यवस्था
1-४ सम्बोधनस्वात् 'कथम्भूत त्वम्' इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org