________________
महाकविश्रीधनपालविरचितायाः
॥ ऋषभपञ्चाशिकाया अवचूरिचतुष्टयम् ॥
अर्हम् ।
महोपाध्यायश्रीधर्मशेखररचिता संस्कृतप्राकृतावचूरि:
जगज्जन्तु कल्पपादप ! जगत- विश्व तणा जंतु-प्राणीया रंहई कल्पपादप - कल्पवृक्ष छेई । हे रागपङ्कजवनस्य चन्द्रातप ! रागरूपीया पङ्कजवन - कमलवन रहई चन्द्रातपचन्द्रकिरण छैई । हे सकलमुनिग्रामग्रामणीः ! सकल- समस्त मुनिग्राम - मुनिसमूह तीहं माहि ग्रामणी - अग्रेसर छेई । हे त्रैलोक्यचूडामणे ! ते तुभ्यं नमोऽस्तु । त्रिभुवन रहई चूडामणि - मस्तकाभरण छैई । एवंविध तुझ रहई नमस्कार हु ॥ १ ॥ श्रीनेमिचन्द्र मुनिवरप्रणीता अवचूरि:
जयेति । नमः तुभ्यम्, अस्तु इति क्रियाऽध्याहारः । हे जगजन्तूनां कल्पो - मनोरथस्तत्पूरकः पादप इव कल्पपादपस्तस्य सम्बोधनम् | चन्द्रतेज इव - मृगाङ्कज्योत्स्नेव तस्य सम्बोधनम् । कये - त्याह - रागः - प्रीतिलक्षणः स एव पङ्कजवनं तस्य । सकलमुनिवृन्दस्य - समस्तयतिवृन्दस्य अग्रणीः, आराध्यत्वात्, यद्वा सकलमुनय एव ग्रामः - कुटुम्बनिवासस्तस्य ग्रामणीः - नायकस्तत्सम्बोधनम् । त्रिलोकस्य चूडामणिः - मस्तकाभरणमिव तत्सम्बोधनम् ॥ १ ॥ चिरन्तनमुनिरत्नविरचिता अवचूर्णि:
Jain Education International
सुरैः प्रणतपादस्य, नाभेयस्य महात्मनः ।
स्तुतेर्गुरूपदेशेन, किञ्चिद् वच्मि विवेचनम् ॥ १ ॥
इह भगवतो यद्यपि गुणस्तुतिः सर्वाऽपि नमस्काररूपा तथापि विशेषतः शिष्टसमयस्मरणार्थं विघ्नविनायकोपशमनार्थं च तावत् तस्या एवादौ नमस्कारमाह – जयजंतु० । हे जगजन्तुकल्पपादप ! | चन्द्राप इव - ज्योत्स्नेव । कस्येत्याह - रागः - प्रीतिलक्षणः स एव पङ्कजवनं तस्य । सकलमुनिवृन्दस्याग्रणीः । त्रिलोकस्य चूडा- सिद्धक्षेत्रं तस्मिन् मणिरिव तत्सम्बोधनम् । ते तुभ्यं नमोऽस्त्विति सम्बन्धः । रूपकालङ्कारेण सम्बोधनानि ॥ १ ॥
पूर्वमुनिवर्यसूत्रिता अवचूरि:
अत्र जन्तुशब्देन सामान्यप्राणिगणपर्यायेणापि प्रथमतीर्थपतेर्गृहस्थावस्थासमयवर्तिनो मनुष्याः प्रोच्यन्ते,
१ गूर्जर गिरायां 'ने' स्थाने 'रहई' इति प्रायुञ्जत तदानीं लोक इति ध्वन्यतेऽनेन । ६ 'नमस्कारु हउ' इति ख- पाठः ।
२- ५ 'छं' इति ख- पाठः ।
For Private & Personal Use Only
www.jainelibrary.org